पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 418, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ४०३ ) शक्यते तत्र गन्तुम्,तस्मात् तामपि मे भ्रातृपत्नीमत्र आनय येन प्रणम्य तस्या आशीर्वादं गृह्णामि” । स आह,–“भो मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिनप्रदेशेऽस्मद्गृहम् । तत् मम पृष्ठमारूढः सुखेन अकृतभयो गच्छ” । सोऽपि तच्छ्रुत्वा सानन्दमाह,–“भद्र ! यदि एवं तत् किं विलम्ब्यते त्वर्यताम् । एषोऽहं तव पृष्ठमारूढः । तथानुष्ठिते अगाधे जलधौ गच्छन्तं मकरमालोक्य भयत्रस्तमना वानरः प्रोवाच– “भ्रातः ! शनैः शनैः गम्यताम् । जलकल्लोलैः प्लाव्यते मे शरीरम्”। तत् आकर्ण्य मकरः चिन्तयामास । “असौ अगाधं जलं प्राप्तो मे वशः सञ्जातः, मत्पृष्ठगतः तिलमात्रमपि चलितुं न शक्नोति । तस्मात् कथयामि अस्य निजाभिप्रायं, येन अभीष्टदेवतास्मरणं करोति” । आह च,–“मित्र ! त्वं मया वधाय समानीतो भार्यावाक्येन विश्वास्य । तत् स्मर्यतामभीष्टदेवता” । स आह,–“भ्रातः ! किं मया तस्याः तवापि च अपकृतं ? येन मे वधोपायः चिन्तितः” । मकर आह,–“भोः ! तस्याः तावत् तव हृदयस्य अमृतमय- फलरसास्वादनमृष्टस्य भक्षणे दोहदः सञ्जातः तेन एतदनु- ष्ठितम्” । प्रत्युत्पन्नमतिः वानर आह,–“भद्र ! यदि एवं तत् किं त्वया मम तत्र एव न व्याहृतम् । येन स्वहृदयं जम्बूको- टरे सदा एव मया सुगुप्तं कृतम् । तद् भ्रातृपत्नया अर्पया- मि । त्वया अहं शून्यहृदयोऽत्र कस्मात् आनीतः ?” तदा- कर्ण्य मकरः सानन्दमाह,–“भद्र ! यदि एवं तदर्पय मे हृदयं येन सा दुष्टपत्नी तद्भक्षयित्वा अनशनादुत्तिष्ठति । अहं त्वां तमेव जम्बूपादपं प्रापयामि” । एवमुक्त्वा निवृत्य जम्बूतलमगात् । वानरोऽपि कथमपि जल्पितविविधदेवतो- पचारपूजः तीरमासादितवान्। ततश्च दीर्घतरचंक्रमणेन तमेव जम्बूपादपमारूढः चिन्तयामास । “अहो ! लब्धाः तावत् प्राणाः । अथवा साधु इदमुच्यते–