पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 443, कुल 536 में से
संदर्भ में पढ़ें( ४२८ ) पञ्चतन्त्रम् । सो धिक् मूर्ख ! जो तैने स्त्रीके निमित्त इस कार्यके अनुष्ठानका आरम्भ किया । किसी प्रकार स्त्रियोंका विश्वास न करे । कहा है- यदर्थे स्वकुलं त्यक्तं जीविताद्धंश्च हारितम् । सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन्नरः । ४७॥ जिसके निमित्त कुल त्यागन किया आधा जीवन नष्ट किया वह स्नेह- रहित होकर मुझको त्यागन करती है कौन मनुष्य स्त्रीका विश्वास करे ॥४७॥ मकर आह-"कथमेतत् ?'' वानर आह- मकर बोला-"यह कैसी कथा ?'' वानर बोला- कथा ६. अस्ति कस्मिंश्चित् अधिष्ठाने कोऽपि ब्राह्मणः । तस्य च भार्य्या प्राणेभ्योऽपि अतिप्रिया आसीत् । सापि प्रतिदिनं कुटुम्बेन सह कलहं कुर्वाणा न विश्राम्यति । सोऽपि ब्राह्मणः कलहमसहमानो भार्य्यावात्सल्यात् स्वकुटुम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवीमध्ये ब्राह्मण्या अभिहितः,-"आर्य्यपुत्र ! तृष्णा मां बाधते । तदु- दकं क्वापि अन्वेषय" । अथ असौ तद्वचनानन्तरं यावत् उदकं गृहीत्वा समागच्छति तावत् तां मृतामपश्यत् । अति- वल्लभतया विषादं कुर्वन् यावत् विलपति तावत् आकाशे वाचं शृणोति । तथा हि "यदि ब्राह्मण त्वं स्वकीयजीवित- स्यार्द्धं ददासि, ततः ते जीवति ब्राह्मणी" । तत् श्रुत्वा ब्राह्म- णेन शुचीभूय तिसृभिर्वाचाभिः स्वजीविताद्धं दत्तम् । वाक्- सममेव च ब्राह्मणी जीविता सा । अथ तौ जलं पीत्वा वनफलानि भक्षयित्वा गन्तुमारब्धौ । ततः क्रमेण कस्यचित नगरस्य प्रदेशे पुष्पवाटिकां प्रविश्य ब्राह्मणो भार्याम् अभिहितवान्-"भद्रे ! यावत् अहं भोजनं गृहीत्वा समाग- च्छामि तावत् अत्र त्वया स्थातव्यम्" इत्यभिधाय ब्राह्मणो नगरमध्ये जगाम । अथ तस्यां पुष्पवाटिकायां पंगुः अर-