पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 453, कुल 536 में से
संदर्भ में पढ़ें( ४३८ ) पञ्चतन्त्रम् । यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव । नाभूज्जारो न भर्त्ता च किं निरीक्षसि नग्निके ॥६२॥” जैसे मेरी पंडिताई है उससे दूनी तुम्हारी है केवल जार ( उपपति ) ही नहीं परंतु भर्ता भी नहीं हे वसनरहिते क्या देखती है ॥ ६२ ॥ ” वानर आह,-“कथमेतत् ?” मकरोऽब्रवीत्- वानर बोला,-“यह कैसी कथा ?” मकर बोला- कथा ९. कस्मिंश्चिदधिष्ठाने हालिकदम्पती प्रतिवसतः स्म । सा च हालिकभार्या पत्युर्वृद्धभावात् सदैव अन्यचित्ता न कथञ्चिद् गृहे स्थैर्यमालम्बते, केवलं परपुरुषान् अन्वेषमाणा परिभ्रमति । अथ केनचित् परवित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च,-“सुभगे ! मृतभार्योऽहम् । त्व- दर्शनेन स्मरपीडितश्च । तद्दीयतां मे रतिदक्षिणा,” ततः तयाभिहितं,-“भो सुभग ! यदि एवं तदस्ति मे पत्युः प्रभूतं धनं स च वृद्धत्वात् प्रचलितुमपि असमर्थः तत् । तद्धनमा- दाय अहमागच्छामि । येन त्वया सह अन्यत्र गत्वा यथे- च्छया रतिसुखमनुभविष्यामि” । सोऽब्रवीत्,-“रोचते मह्यमपि एतत् । प्रत्यूषेऽत्र स्थाने शीघ्रमेव समागन्तव्यं येन शुभतरं किञ्चित् नगरं गत्वा त्वया सह जीवलोकः सफली- क्रियते” । सापि तथेति प्रतिज्ञाय प्रहसितवदना स्वगृहं गत्वा रात्रौ प्रसुप्ते भर्त्तरि सर्वं वित्तमादाय प्रत्यूषसमये तत कथितस्थानमुपाद्रवत् । धूर्त्तोऽपि तामग्रे विधाय दक्षिणां दिशमाश्रित्य सत्वरगतिः प्रस्थितः । एवं तयोः व्रजतोः योजनद्वयमात्रेण अग्रतः काचित् नदी समुपस्थिता । तां दृष्ट्वा धूर्त्तः चिन्तयामास, “किं अहमनया यौवनप्रान्ते वर्त्त- मानया करिष्यामि । किंच कदापि अस्याः पृष्ठतः कोऽपि समेष्यति, तन्मे महान् अनर्थः स्यात् ! तत् केवलमस्या वित्तं आदाय गच्छामि” इति निश्चित्य तामुवाच,-“प्रिये !