पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 462, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ४४७ ) उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ७२ ॥” जो उपकारियोंमें साधु है उसके साधुतामें क्या गुण है ?-जो अपकारियोंपर कृपा करे महात्माओंने उसेही साधु कहो है ॥ ७२ ॥” तदाकर्ण्य वानरः प्राह,–“भद्र ! यदि एवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु । उक्तञ्च– यह सुनकर वानर बोला-“भद्र ! जो ऐसा है तो जाकर उसके संग युद्ध कर– हतस्त्वं प्राप्स्यसि स्वर्गं जीवन् गृहमथो यशः । युध्यमानस्य ते भावि गुणद्वयमनुत्तमम् ॥ ७३ ॥ मरनेसे स्वर्गको प्राप्त होगा, जीनेसे गृह और यशको प्राप्त होगा, युद्ध करनेसे तुझको दोनो प्रकार श्रेष्ठ गुण प्राप्त होंगे ॥ ७३ ॥ उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ॥७४॥ उत्तमको प्रणाम करके, शूरको भेद करके, नीचको कुछ देकर युक्त करे और समान बलवालेसे युद्ध करै ॥ ७४ ॥” मकरः प्राह,–“कथमेतत् ?” सोऽब्रवीत्,– मकर बोला,–“यह कैसे ?” वह बोला- कथा ११. आसीत् कस्मिंश्चित् वनोद्देशे महाचतुरको नाम शृगालः। तेन कदाचित् अरण्ये स्वयं मृतो गजः समासादितः । तस्य समन्तात् परिभ्रमति परं कठिनां त्वचं भेत्तुं न शक्नोति । अथ अत्र अवसरे इतश्चेतश्च विचरन् कश्चित् सिंहस्तत्रैव प्रदेशे समाययौ । अथ सिंहं समागतं दृष्ट्वा स क्षितितलविन्यस्त- मौलिमण्डलः संयोजितकरयुगलः सविनयमुवाच,–“स्वा- मिन् ! त्वदीयोऽहं लागुडिकः स्थितः त्वदर्थे गजमिमं रक्ष्या- मि । तत् एनं भक्षयतु स्वामी” । तं प्रणतं दृष्ट्वा सिंहः