पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 484, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ४६९ ) महान्त एव महतामर्थं साधयितुं क्षमाः । ऋते समुद्रादन्यः को बिभर्त्ति वडवानलम् ॥ ३५ ॥" महान् पुरुषही महान् अर्थोंको साधनेमें समर्थ होते हैं समुद्रके बिना वडवा- नल धारण करनेको कौन समर्थ हो सकता है ? ॥ ३५ ॥" भैरवानन्दोऽपि तेषां सिद्ध्यर्थं बहूपायं सिद्धवर्त्तिचतुष्टयं कृत्वा अर्पयत् । आह, च-"गम्यतां हिमालयदिशि, तत्र सम्प्राप्तानां यत्र वर्त्तिः पतिष्यति, तत्र निधानम् असन्दिग्धं प्राप्स्यथ, तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुष्य- ताम्” । तथा अनुष्ठिते तेषां गच्छताम् एकतमस्य हस्ताद्व- र्त्तिर्निपपात । अथ असौ यावत् तं प्रदेशं खनति तावद् ताम्रमयी भूमिः । ततः तेन अभिहितम्-"अहो ! गृह्यतां स्वेच्छया ताम्रम्” । अन्ये प्रोचुः, - "भो मूढ ! किमनेन क्रियते ? तत् प्रभृतमपि दारिद्र्यं न नाशयति । तदुत्तिष्ठ अग्रतो गच्छामः” । सोऽब्रवीत्,- “यान्तु भवन्तो न अहमग्रे यास्यामि” । एवम् अभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः । ते त्रयोऽपि अग्रे प्रस्थिताः । अथ किञ्चि- न्मात्रं गतस्य अग्रेसरस्य वर्त्तिः निपपात । सोऽपि यावत् खनितुम् आरब्धः तावत् रूप्यमयी क्षितिः । ततः प्रहर्षितः प्राह, - "यत् भो ! गृह्यतां यथेच्छया रूप्यम् । न अग्रे गन्त- व्यम्” । तौ ऊचतुः-"भोः ! पृष्ठतः ताम्रमयी भूमिरग्रतो रूप्यमयी । तत् नूनम् अग्रे सुवर्णमयी भविष्यति । तदनेन प्रभूतेनापि दारिद्र्यनाशो न भवति । तत् आवाम् अग्रे या- स्यावः” । एवमुक्त्वा द्वौ अपि अग्रे प्रस्थितौ । सोऽपि स्वशक्त्या रूप्यम् आदाय निवृत्तः । तयोरपि गच्छतोः एकस्य अग्रे वर्त्तिः पपात । सोऽपि प्रहृष्टो यावत् खनति तावत् सुवर्ण- भूमिं दृष्ट्वा द्वितीयं प्राह,-"भो ! गृह्यतां स्वेच्छया सुवर्णम् सुवर्णादन्यत् न किञ्चित् उत्तमं भविष्यति” । स प्राह,- "मूढ ! न किञ्चित् वेत्सि । प्राक् ताम्रं, ततो रूप्यं, ततः