पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 61, कुल 536 में से
संदर्भ में पढ़ें(४६) पञ्चतन्त्रम् । कथा ३. अस्त्यत्र धरातले वर्द्धमानं नाम नगरम् । तत्र दन्तिलो नाम नानाभाण्डपतिः सकलपुरनायकः प्रतिवसतिस्म । तेन पुरकार्य्यं नृपकार्य्यञ्च कुर्व्वता तुष्टिं नीताः तत्पुरवासिनो लोका नृपतिश्च । किं बहुना । न कोऽपि तादृक् केनापि चतुरो दृष्टो न अपि श्रुतो वेति । अथवा साधु चेदमुच्यते- इस धरातलमें वर्द्धमान नाम नगर है उसमे दन्तिल नामवाला बहुत धनपति (सेठ) सब पुरका नायक रहताथा । उसने पुरकार्य और राजकार्य करके उस पुरके रहनेवाले लोक और राजाको प्रसन्न किया कोईभी उसके समान चतुर किसीने न देखा न सुना; अथवा यह सत्य कहा है कि- नरपतिहितकर्त्ता द्वेष्यतां याति लोके जनपदहितकर्त्ता त्यज्यते पार्थिवेन्द्रैः । इति महति विरोधे वर्त्तमाने समाने नृपतिजनपदानां दुर्लभः कार्य्यकर्त्ता ॥ १४२ ॥ राजाका हितकर्ता लोकमें द्वेषताको प्राप्त होता है, देशका हित करनेवाला राजोंसे त्यागा जाता है, इस प्रकार बडे विरोधके वर्तमान होनेमें राजा और प्रजाका कार्य साधक दुर्लभ है ॥ १४२ ॥ अथ एवं गच्छति काले दन्तिलस्य कदाचिद्विवाहः सम्प्र- वृत्तः । तत्र तेन सर्वे पुरनिवासिनो राजसन्निधिलोकाश्च सम्मानपुरःसरमामन्त्र्य भोजिता वस्त्रादिभिः सत्कृताश्च । ततो विवाहानन्तरं राजा सान्तःपुरः स्वगृहंमानीय अभ्य- र्च्चितः । अथ तस्य नृपतेः गृहसम्मार्जनकर्त्ता गोरम्भो नाम राजसेवको गृहायातोऽपि तेन अनुचितस्थाने उपविष्टोऽवज्ञया अर्द्धचन्द्रं दत्त्वा निःसारितः । सोऽपि ततःप्रभृति निःश्वसन् अपमानात् न रात्रौ अपि अधिशेते । 'कथं मया तस्य भाण्ड- पतेः राजप्रसादहानिः कर्त्तव्या' इति चिन्तयन् आस्ते । 'अथवा किमनेन वृथा शरीरशोषणेन । न किञ्चित् मया तस्य अपकर्तुं शक्यमिति । अथवा साधु इदमुच्यते-