पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 135, कुल 536 में से
संदर्भ में पढ़ें( १२० ) पञ्चतन्त्रम् ।
होजाय-परन्तु कर्कटमीनके दांतसे ग्रहण करनेसे तथा नीलवर्णके संगमें मुक्ति कठिन है) ॥ २८३ ॥
अथ तं हरगलगरलतमालसमप्रभमपूर्व सत्त्वमवलोक्य-सर्वे सिंहव्याघ्रद्वीपिवृकप्रभृतयोऽरण्यनिवासिनो भयव्याकुलितचित्ताः समन्तात् पलायनक्रियां कुर्वन्ति, कथयन्ति च “न ज्ञायतेऽस्य-कीदृग्विचेष्टितं पौरुषञ्च । तद्दूरतरं गच्छामः उक्तञ्च-
तब उसको शिवजीके गलेकी विषकी समान कान्तिमान् अपूर्व जीव देखकर सब सिंह व्याघ्र गेंडे वनवासी भयसे व्याकुल हो सब ओरसे पलायन करने लगे और कहने लगे,—“नहीं जानते इसकी कैसी चेष्टा और पराक्रम है सो दूरचलें । कहाहै-
न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् । न तस्य विश्वसेत्प्राज्ञो यदीच्छेच्छ्रियमात्मनः ॥ २८४ ॥
जिसके चेष्टा कुल पराक्रमको न जाने यदि अपना मंगल चाहे तो बुद्धिमान् उसका विश्वास न करे ॥ २८४॥
चण्डरवोऽपि तान् भयव्याकुलितान् विज्ञाय इदमाह-“भोः भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव सन्त्रस्ता व्रजथ ? तन्न भेतव्यम्, अहं ब्रह्मणा अद्य स्वयमेव सृष्ट्वाभिहितः-“यत् श्वापदानां मध्ये कश्चिद्राजा नास्ति, तत्त्वं मया अद्य सर्वश्वापदप्रभुत्वेऽभिषिक्तः ककुद्द्रुमाभिधस्ततो गत्वा क्षितितले तान् सर्वान् परिपालय” इति-ततोऽहमत्रागतः । तन्मम छत्रच्छायायां सर्वैरेव श्वापदैर्वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः” । तच्छ्रुत्वा सिंहव्याघ्रपुरःसराः श्वापदाः-“स्वामिन् ! प्रभो ! समादिश” इति वदन्तस्तं परिवव्रुः । अथ तेन सिंहस्य अमात्यपदवी प्रदत्ता, व्याघ्रस्य शय्यापालत्वं, द्वीपिनः ताम्बूलाधिकारो, वृकस्य द्वारपालकत्वम्, ये च आत्मीयाः शृगालाः तैः सह आलापमात्रमपि न करोति । शृगालाः सर्वेऽपि अर्द्धचन्द्रं