पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 184, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । (१६९)
स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति, स्वामिनः पुनः प्राणयात्रा भवति”। तदाकर्ण्य शंकुकर्णः प्राह,-“भद्र ! यदि एवं तन्मदीयप्रयोजनमेतदुच्यताम् । स्वाम्यर्थः क्रियतामिति, परमत्र धर्मः प्रतिभूः”। इति ते विविच्य सर्वे सिंहसकाशमाजग्मुः । ततः चतुरक आह-“देव ! न किञ्चित् सत्त्वं प्राप्तम् । भगवानादित्योऽपि अस्तङ्गतः । तद्यदि स्वामी द्विगुणं शरीरं प्रयच्छति ततः शंकुकर्णोऽयं द्विगुणवृद्ध्या स्वशरीरं प्रयच्छति धर्मप्रतिभुवा”। सिंह आह-“भो ! यदि एवं तत् सुन्दरतरम्, व्यवहारस्य अस्य धर्मः प्रतिभूः क्रियताम्”इति । अथ सिंहवचनानन्तरं वृकश्ृगालाभ्यां विदारितोभयकुक्षिः शंकुकर्णः पञ्चत्वमुपागतः । अथ वज्रदंष्ट्रः चतुरकमाह-“भोः चतुरक ! यावदहं नदीं गत्वा स्नानं देवतार्चनाविधिं कृत्वा आगच्छामि, तावत् त्वया अत्र अप्रमत्तेन भाव्यम्” इत्युक्त्वा नद्यां गतः । अथ तस्मिन् गते चतुरकः चिन्तयामास, कथं मम एकाकिनो भोज्योऽयमुष्ट्रो भविष्यतीति विचिन्त्य क्रव्यमुखमाह,-“भोः क्रव्यमुख ! क्षुधालुर्भगवान्, तद्यावदसौ स्वामी न आगच्छति तावत् त्वमस्य उष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निर्दोषं प्रतिपादयिष्यामि”। सोऽपि तच्छ्रुत्वा यावत् किञ्चिन्मांसं आस्वादयति तावच्चतुरकेणोक्तम्,-“भोः क्रव्यमुख ! समागच्छति स्वामी, तत् त्यक्त्वा एनं दूरे तिष्ठ येनास्य भक्षणं न विकल्पयति”। तथानुष्ठिते सिंहः समायातो यावदुष्ट्रं पश्यति तावद्रिक्तीकृतहृदयो दासेरकः । ततो भ्रुकुटिं कृत्वा परुषतरमाह-“अहो ! केनैष उष्ट्र उच्छिष्टतां नीतो येन तमपि व्यापादयामि”। एवमभिहिते क्रव्यमुखः चतुरकमुखं अवलोकयति, “किल तद्वद किञ्चिद्येन मम शान्तिर्भवति”। अथ चतुरको विहस्योवाच--“भो ! मामनादृत्य पिशितं भक्षयित्वा अधुना मन्मुखमवलोकयसि ! तत् आस्वादय