पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 282, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । (२६७)
अपरं मूषकमांसस्य निर्विण्णा अहम्, एतौ च मांसपिण्डौ पतनप्रायौ दृश्येते, तत्सर्वथा नान्यथा कर्त्तव्यम्" इति। अथ असौ तदाकर्ण्य मूषकप्राप्तिस्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठमन्वगच्छत् । अथवा साधु इदमुच्यते-
औरभी मूषकमांस खाते २ मेरा जी उकता गया है और यह मांसपिण्ड-प्रायः गिरजायेंगे ऐसा विदित होता है । सो सब प्रकारसे अन्यथा करना उचित नहीं" । तब यह ऐसे वचन श्रवण कर मूषकप्राप्ति स्थानको त्यागन कर तीक्ष्णविषाणके पीछे पीछे गया । अथवा यह अच्छा कहा है-
तावत्स्यात्सर्वकृत्येषु पुरुषोऽत्र स्वयं प्रभुः ।
स्त्रीवाक्याङ्कुशविक्षुण्णो यावन्नोद्ध्रियते बलात् ॥ १५३ ॥
तभीतक यह पुरुष सम्पूर्ण कार्योंमें स्वाधीन होता है जबतक बलपूर्वक स्त्रीके वाक्यरूपी अंकुशसे ताड़ित नहीं होता ॥ १५३ ॥
अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् ।
अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः ॥ १५४ ॥"
स्त्रीके वाक्यसे प्रेरित हुआ मनुष्य अकार्य्यको कार्य, अगम्य (दुर्गम) को सुगम और अभक्ष्यको भक्ष्य मानता है ॥ १५४ ॥"
एवं स तस्य पृष्ठतः सभार्य्यः परिभ्रमन् चिरकालमनयत् । न च तयोः पतनमभूत् । ततश्च निर्वेदात् पञ्चदशे वर्षे शृगालः स्वभार्यामाह,-
इस प्रकार वह उसके पीछे स्त्रीसहित परिभ्रमण करता २ बहुत समय बिताता हुआ परन्तु अण्डकोशोंका पतन न हुआ तब वैराग्यसे पन्द्रहवें वर्ष अपनी भार्यासे बोला,-
"शिथिलौ च सुबद्धौ च पततः पततो न वा ।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ १५५ ॥
"शिथिल हैं सुदृढ हैं गिरेंगे वा नहीं भद्रे १५ वर्षतक मैं बराबर देखता रहा ॥ १५५ ॥
त्तयोः तत्पश्चादपि पातो न भविष्यति । तद् तदेव स्वस्थानं गच्छावः । अतोऽहं ब्रवीमि-