भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 338, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 338

भाषाटीकासमेतम् । ( ३२३ )

तस्माद्विश्रब्धौ मम कर्णोपान्तिके स्फुटं निवेदयतम्” । किं बहुना, तेन क्षुद्रेण तथा तौ तूर्णं विश्वासितौ, यथा तस्य उत्सङ्गवर्तिनौ सञ्जातौ ततश्च तेनापि समकालमेव एकः पादान्तेन आक्रान्तः, अन्यो दंष्ट्राक्रकचेन च । ततो गतप्राणौ भक्षितौ इति । अतोऽहं ब्रवीमि–

इस कारण निडर होकर मेरे कानके निकट स्फुट वचन कहो” । बहुत कहनेसे क्या उस क्षुद्रने उन दोनोंको शीघ्र इस प्रकार विश्वासमें कर लिया कि, वे उसकी गोदीमें आ बैठे । तब उसनेभी एकही समय एकको चरणमे आक्रमण किया और दूसरेको डाढ़रूपी कैंचीमे । इस प्रकार प्राणरहित कर दोनोंको खागया । इससे मैं कहता हू–

क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौ । उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ ॥ १११ ॥

क्षुद्र अर्थपतिको प्राप्त होकर न्यायकी खोजमे तत्पर शशक और कपिंजल दोनोंही क्षयको प्राप्त हुए ॥ १११ ॥

भवन्तोऽपि एनं दिवान्धं क्षुद्रमर्थपतिमासाद्य रात्र्यन्धाः सन्तः शशकपिञ्जलमार्गेण यास्यन्ति । एवं ज्ञात्वा यदुचितं तद्विधेयमतःपरम्” अथ तस्य तत् वचनमाकर्ण्य “साधु अनेन अभिहितम्” इति उक्त्वा भूयोऽपि पार्थिवार्थं समेत्य मन्त्रयिष्यामहे” इति ब्रुवाणाः सर्वे पक्षिणो यथामितं जग्मुः केवलमवशिष्टो भद्रासनोपविष्टः अभिषेकाभिमुखो दिवान्धः कृकालिकया सह आस्ते । आह च–“ कः कोऽत्र भोः ! किमद्यापि न क्रियते ममाभिषेकः "? इति श्रुत्वा कृकालिकया अभिहितम्–“भद्र! तव अभिषेके कृतोऽयं विघ्नो वायसेन । गताश्च सर्वेऽपि विहगा यथेप्सितासु दिक्षु केवलमेकोऽयं वायसोऽवशिष्टः केनापि हेतुना तिष्ठति तत् त्वरितमुत्तिष्ठ येन त्वां स्वाश्रयं प्रापयामि” । तत् श्रुत्वा सविषादमुलूको वायसमाह,–“भो भो दुष्टात्मन् ! किं मया ते अपकृतम् ?