भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 375, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 375

( ३६० ) पञ्चतन्त्रम् ।

स्पर्शनीयं यतोऽहं पतिव्रता महासती च। न चेत् शापं दत्त्वा त्वां भस्मसात करिष्यामि”। स आह- “यदि एवं तर्हि त्वया किमहमाहूतः?” सा अब्रवीत्,- “भो ! शृणुष्व एकाग्रमनाः। अहमद्यप्रत्यूषे देवतादर्शनार्थं चण्डिकायतनं गता, तत्र अक- स्मात् खे वाणी सञ्जाता- “पुत्रि ! किं करोमि, भक्तासि मे त्वं, परं षण्मासाभ्यन्तरे विधिनियोगाद् विधवा भवि- ष्यसि”। ततो मया अभिहितं,- “भगवति ! यथा त्वम् आपदं वेत्सि, तथा तत्प्रतीकारमपि जानासि । तत् अस्ति कश्चिदुपायो येन मे पतिः शतसंवत्सरजीवी भवति ?” । ततः तया अभिहितम्- “वत्से ! सन्नपि नास्ति । यतः तव आयत्तः स प्रतीकारः” तच्छ्रुत्वा मया अभिहितम्,- “देवि ! यदि तत् मम प्राणैर्भवति, तत् आदिशय येन करोमि”। अथ देव्या अभिहितम्,- “यदि अद्यदिने परपुरुषेण सह एकस्मिन् शयने समारुह्य आलिङ्गनं करोषि, तत् एव भर्तृ- सक्तोऽपमृत्युः तस्य सञ्चरति भर्त्तापि पुनः वर्षशतं जीवति”। तेन त्वं मया अभ्यर्थितः । तद्यत किञ्चित कर्तुमनाः तत् कुरुष्व । न हि देवतावचनमन्यथा भविष्यति । इति निश्चयः”। ततोऽन्तर्हासविकाशमुखः स तदुचितमाचचार । सोऽपि रथकारो मूर्खः तस्याः तद्वचनमाकर्ण्य पुलकाङ्किततनुः शय्याधस्तलात् निष्क्रम्य तामुवाच,- “साधु पतिव्रते ! साधु कुलनन्दिनि अहं दुर्जनवचनशंकितहृदयः त्वत्परीक्षानिमित्तं ग्रामान्तरव्याजं कृत्वा अत्र खट्वाधस्तले निभृतं लीनः । तत एहि आलिङ्गय मां, त्वं स्वभर्त्तृभक्तानां मुख्या नारीणां यत् एव ब्रह्मव्रतं परसङ्गेऽपि पालितवती । मदायूर्वृद्धिकृतेऽपमृ- त्युविनाशार्थञ्च त्वमेवं कृतवती”। तामेवमुक्ता सस्नेहमालि- ङ्गितवान् । स्वरुस्कन्धे तां आरोप्य तमपि देवदत्तमुवाच,- “भो महानुभाव ! मत्पुण्यैः त्वमिह आगतः, त्वत्प्रसादात मया प्राप्तं वर्षशतप्रमाणमायुः। तत् त्वमपि मामालिङ्गय मत-