भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 444, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 444

भाषाटीकासमेतम् । ( ४२९ )

घट्टं खेलयन् दिव्यगिरा गीतमुद्गिरति । तच्च श्रुत्वा कुसुमे- षुना अर्दितया ब्राह्मण्य्रा तत्सकाशं गत्वा अभिहितम्—“भद्र! यदि मां न कामयसे, तत् मत्सक्ता स्त्रीहत्या तव भविष्यति” पंगुरब्रवीत्,—“किं व्याधिग्रस्तेन मया करिष्यसि ?” सा अब्रवीत्,—“किमनेन उक्तेन अवश्यं त्वया सह मया संगमः कर्त्तव्यः।” तत् श्रुत्वा तथा कृतवान् । सुरतानन्तरं सा अब्र- वीत—“इतः प्रभृति यावज्जीवं मया आत्मा भवते दत्तः। इति ज्ञात्वा भवानपि अस्माभिः सह आगच्छतु” । सोऽब्र- वीत्—“एवमस्तु,” अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सह भोक्तुम् आरब्धः। सा अब्रवीत्—“एष पंगुः बुभुक्षि- तः तदेतस्यापि कियन्तमपि ग्रासं देहि” इति । तथा अनुष्ठिते ब्राह्मण्य्रा अभिहितम्—“ब्राह्मण ! सहायहीनः त्वं यदा ग्रामान्तरं गच्छसि, तदा मम वचनसहायोऽपि नास्ति तत् एनं पंगुं गृहीत्वा गच्छावः ?” । सोऽब्रवीत्—“न शक्नोमि आत्मानमपि आत्मना वोढुं किं पुनः एनं पंगुम् ?” सा अब्र- वीत्—“पेटाभ्यन्तरस्थं एनमहं नेष्यामि”। अथ तत्कृतकवच- नव्यामोहितचित्तेन तेन प्रतिपन्नं, तथा अनुष्ठिते अन्यस्मिन् दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणः तया च पंगुपुरुषासक्तया सम्प्रेर्य्य कूपान्तः पातितः। सापि पंगुं गृहीत्वा कस्मिंश्चित् नगरे प्रविष्टा । तत्र शुल्कचौर्य्यरक्षानिमित्तं राजपुरुषैरित- स्ततो भ्रमद्भिः तन्मस्तकस्था पेटा दृष्टा, बलात् आच्छिद्य राजाग्रे नीता। राजा च यावत् तां उद्घाटयति, तावत् तं पंगुं ददर्श । ततः सा ब्राह्मणी विलापं कुर्वती राजपुरुषानुपदं एव तत्र आगता । राज्ञा पृष्टा “को वृत्तान्तः” इति । सा अब्रवीत्,—“मम एष भर्त्ता व्याधिबाधितो दायादसमूहैः उद्वेजितो मया स्नेहव्याकुलितमानसया शिरसिकृत्वा भव- दीयनगरे आनीतः” तत् श्रुत्वा राजा अब्रवीत्—“ब्राह्मणि! त्वं मे भगिनी, ग्रामद्वयं गृहीत्वा भर्त्रा सह भोगान् भुञ्जाना