भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 506, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 506

भाषाटीकासमेतम्। ( ४९१ )

सौदासं तदवस्थमर्जुनवधं सञ्चिन्त्य लंकेश्वरं
दृष्ट्वा राज्यकृते विडम्बनगतं तस्मान्न तद्वाञ्छयेत् ॥ ६९ ॥

रामचन्द्रको वनमें जाना, पाण्डुपुत्रोंका वनगमन, वृष्णिवंशियोंका निधन, नलराजाका राज्यसे भ्रष्ट होना, सौदास राजाका गुरु शापसे राक्षस होना, कार्तवीर्य अर्जुन और रावणका वध विचार राज्यके निमित्त अनेक विडम्बना देखकर राज्यकी वाञ्छा न करै ॥ ६९ ॥

यदर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः ।
वधं राज्यकृतां राज्ञां तद्राज्यं दूरतस्त्यजेत् ॥ ७० ॥”

जो अपने भाई पुत्र हैं वेभी जिस राज्यके निमित्त राजाके वधकी इच्छा करते हैं इस कारण दूरसेही राज्यको त्यागे ॥ ७० ॥”

कौलिक आह,–“सत्यमुक्तं भवत्या । तत् कथय किं प्रार्थये ?” सा आह,–“त्वं तावदेकं पटं नित्यमेव निष्पादयसि, तेन सर्वा व्ययसिद्धिः सम्पद्यते । इदानीं त्वं आत्मनोऽन्यद् बाहुयुगलं द्वितीयं शिरश्च याचस्व, येन पटद्वयं सम्पादयसि पुरतः पृष्ठतश्च, एकस्य मूल्येन गृहे यथापूर्वं व्ययं सम्पादयिष्यसि । द्वितीयस्य मूल्येन विशेषकृत्यानि करिष्यसि । एवं सौख्येन स्वजातिमध्ये श्लाघमानस्य कालो यास्यति । लोकद्वयस्य उपार्जना च भविष्यति” सोऽपि तदाकर्ण्य प्रहृष्टः प्राह.–“साधु पतिव्रते ! साधु, युक्तमुक्तं भवत्या; तदेवं करिष्यामि, एष मे निश्चयः”। ततोऽसौ गत्वा व्यन्तरं प्रार्थयाञ्चक्रे,–“भो ! यदि मम ईप्सितं प्रयच्छसि तत् देहि मे द्वितीयं बाहुयुगलं शिरश्च”। एवम् अभिहिते तत्क्षणादेव द्विशिराः चतुर्बाहुश्च सञ्जातः । ततो हृष्टमना यावत् गृहम् आगच्छति, तावत् लोकैः राक्षसोऽयमिति मन्यमानैः लगुडपाषाणप्रहारैः ताडितो मृतश्च । अतोऽहं ब्रवीमि–

कौलिक बोला–“तैने सत्य कहा, सो बता कि क्या मांगू ?” वह बोली– “तुम एक पट प्रतिदिन बुन लेतेहो उससे सब खर्च भली प्रकार चलता है; इस