पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 508, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ४९३ )
सम्पूरितः । तञ्च घटं नागदन्ते अवलम्ब्य तस्य अधस्तात् खट्ठां विधाय सततम् एकदृष्ट्या तम् अवलोकयति । अथ कदाचित् रात्रौ सुप्तः चिन्तयामास, "यत्त परिपूर्णोऽयं घटस्तावत् सक्तुभिः वर्त्तते । तद् यदि दुर्भिक्षं भवति तत् अनेन रूपकाणां शतमुत्पद्यते । ततस्तेन मया अजाद्वयं ग्रहीतव्यम् । ततः षाण्मासिकप्रसववशात् ताभ्यां यूथं भविष्यति । ततोऽजाभिः प्रभूता गा ग्रहीष्यामि, गोभिः महिषीर्महिषीभिः वडवा वडवाप्रसवतः प्रभूता अश्वा भविष्यन्ति, तेषां विक्रयात् प्रभूतं सुवर्णं भविष्यति, सुवर्णेन चतुःशालं गृहं सम्पद्यते । ततः कश्चिद् ब्राह्मणो मम गृहम् आगत्य प्राप्तवयस्कां रूपाढ्यां कन्यां दास्यति, तत्सकाशात् पुत्रो मे भविष्यति, तस्य अहं सोमशर्मेति नाम करिष्यामि । ततः तस्मिन् जानुचलनयोग्ये सञ्जातेऽहं पुस्तकं गृहीत्वा अश्वशालायाः पृष्ठदेशे उपविष्टः तदवधारयिष्यामि । अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्युत्सङ्गात् जानुप्रचलनपरोऽश्वखुरासन्नवर्त्ती मत्समीपम् आगमिष्यति । ततोऽहं ब्राह्मणीं कोपाविष्टोऽभिधास्यामि, गृहाण तावद् बालकम् । सापि गृहकर्मव्यग्रतया अस्मत् वचनं न श्रोष्यति, ततोऽहं समुत्थाय तां पादप्रहारेण ताडयिष्यामि” । एवं तेन ध्यानस्थितेन तथा एव पादप्रहारो दत्तो, यथा स घटो भग्नः । सक्तुभिः पाण्डरतां गतः । अतोऽहं ब्रवीमि—
किसीएक नगरमें स्वभावसे कृपण नाम ब्राह्मण रहता था उसने भिक्षासे पाये खानेमे बचे सक्तुओंसे एक घड़ा पूर्ण किया । उस घड़ेको खूंटीपर लटकाकर उसके नीचे खाट बिछाय निरन्तर एक दृष्टीसे उसे देखता रहता तब किसी समय शयन करते रात्रिमें विचारने लगा । कि, यह घड़ा भरा दीखता है । सो यदि दुर्भिक्ष पड़जाय तो यह सौ रुपयेको बिकै । तो उनकी मैं दो बकरी मोल लूँ । फिर छः महीनेके प्रसव वशसे उनका यूथ होजायगा तो बकरियोंसे फिर बहुतसी गौ ग्रहण करूंगा । गौओंसे भैंस, भैंससे घोड़ी घोड़ीसे बहुतसे घोड़े