पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 520, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । (५०५)
लनामा मां चौरं मत्वा कोपात् निहन्तुम् आगतः । तत् किं करोमि”। एवं चिन्तयन सोऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः । अथ असौ भयत्रस्तमनाः प्रधावितुम् आरब्धः । चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुम् आरब्धवान् । स तु केवलं वेगाद्वेगतरं गच्छति । अथ तं तथाऽगणितखलीनाकर्षणं मत्वा चौरः चिन्तयामास,— “अहो न एवंविधा वाजिनो भवन्ति अगणितखलीनाः तन्नूनम् अनेन अश्वरूपेण राक्षसेन भवितव्यम् । तद् यदि कथञ्चित् पांशुलं भूमिदेशम् अवलोकयामि तदा आत्मानं तत्र पातयामि । न अन्यथा मे जीवितव्यमस्ति”। एवं चिन्तयत इष्टदेवतां स्मरतस्तस्य सोऽश्वो वटवृक्षस्य तले निष्क्रान्तः । चौरोऽपि वटप्ररोहम् आसाद्य तत्रैव विलग्नः । ततो द्वौ अपि तौ पृथग्भूतौ परमानन्दभाजौ जीवितविषये लब्धप्रत्याशौ सम्पन्नौ । अथ तत्र वटे कश्चित् राक्षससुहृत् वानरः स्थितः आसीत् तेन राक्षसं त्रस्तम् आलोक्य व्याहृतम्-“भो मित्र ! किमेवं पलाय्यतेऽलीकभयेन, त्वद्भक्ष्योऽयं मानुषः भक्ष्यताम्”। सोऽपि वानरवचो निशम्य स्वरूपम् आधाय शंकितमनाः स्खलितगतिः निवृत्तः । चौरोऽपि तं वानराहूतं ज्ञात्वा कोपात् तस्य लांगूलं लम्बमानं मुखे निधाय चर्वितवान् । वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भय न किञ्चिदुक्तवान् केवलं व्यथार्त्तो निमीलितनयनः तिष्ठति । राक्षसोऽपि तं तथाभूतम् अवलोक्य श्लोकमेनम्पठत्—
किसी नगरमे भद्रसेन नाम राजा रहता था । उसकी सब लक्षणसे संपन्न रत्नवती नाम कन्या थी । उसे कोई राक्षस ग्रहण करनेकी इच्छा करता रात्रिमें आकर उसे भोगता । परन्तु रक्षाके उपाय होनेके कारण उसे हरनेको समर्थ न होता । वह भी राक्षससे संभोगमें उसके संगकी अवस्थाको कम्पादिसे अनुभव करती । इस प्रकार समयके बीतनेपर एक समय वह राक्षस आधीरातमें घरके कोनेमें स्थित हुआ । वह भी राजकन्या अपनी सखीसे बोली,—“सखि ! देख