भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 58, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 58

भाषाटीकासमेतम् । ( ४३ )

तत् त्वमत्रैव तिष्ठ यावदहं तं समयं दृष्ट्वा ततः पश्चात् त्वां नयामि इति” । तथा अनुष्ठिते दमनकः पिंगलकसकाशं गत्वा इदमाह- “स्वामिन् ! न तत् प्राकृतं सत्त्वं, स हि भगवतो महेश्वरस्य वाहनभूतो वृषभ इति मया पृष्ट इदमूचे- “महेश्वरेण परितुष्टेन कालिन्दीपरिसरे शष्पाग्राणि भक्षयितुं समादिष्टः किं बहुना ममप्रदत्तं भगवता क्रीडार्थं वनमिदम्” पिंगलक आह-(सभयम्) “सत्यं ज्ञातं मयाऽधुना । न देवताप्रसादं विना शष्पभोजिनो व्यालाकीर्णे एवंविधे वने निःशंका नदन्तो भ्रमन्ति । ततस्त्वया किमभिहितम्?”। दमनक आह- “स्वामिन् ! एतदभिहितं मया 'यदेतद्वनं चण्डिकावाहनभूतस्य मत्स्वामिनः पिंगलकनाम्नः सिंहस्य विषयीभूतं तद्भवानभ्यागतः प्रियोऽतिथिः । तत् तस्य सकाशं गत्वा भ्रातृस्नेहेन एकत्र भक्षणपानविहरणक्रियाभिः एकस्थानाश्रयेण कालो नेय इति”। ततः तेनापि सर्वमेतत् प्रतिपन्नमुक्तञ्च सहर्षम् । स्वामिनः सकाशात् अभयदक्षिणा दापयितव्या । इति । तदत्र स्वामी प्रमाणम्” । तच्छ्रुत्वा पिंगलक आह- “साधु सुमते ! साधु । मन्त्रिश्रोत्रिय ! साधु । मम हृदयेन सह सम्मन्त्र्य भवता इदमभिहितम् । तद्दत्ता मया तस्य अभयदक्षिणा । परं सोऽपि मदर्थे अभयदक्षिणां याचयित्वा द्रुततरमानीयतामिति । अथ साधु चेदमुच्यते-

सो तूं यहीं स्थित हो जबतक मैं समयको देखकर पीछे तुझको वहा ले जाऊं” ऐसा करनेपर दमनक पिंगलके समीप जाकर यह बोला- “स्वामिन् ! वह प्राकृत जीव नहीं है, वह शिवजीका वाहनभूत वृषभ है । मेरे पूछनेसे उसने मुझसे कहा है कि, “शिवजीने प्रसन्न होकर यमुना तीरके देशमे नवीन तृण खानेकी आज्ञा दी है, बहुत कहनेसे क्या हे भगवान् शिवने मुझे यह वन क्रीडाके निमित्त प्रदान किया है”। पिंगलक ( भयपूर्वक ) बोला- “अब मैंने सत्य २ जाना देवताकी प्रसन्नताके विना घास खानेवाले सर्पादिकसे युक्त इस प्रकारके वनमे निश्शंक नाद करते हुये घूमते कैसे रहें सो तैने क्या कहा” ? । दमन