भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 68, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 68

भाषाटीकासमेतम् । ( ५३ )

“थोडेसेही उपरको चलाजाताहै, थोडेसेही नीचेको जाताहै, तराजू और दुष्टकी एकहीसी चेष्टाहै ॥ १६१ ॥”

ततश्च अन्येद्युः स गोरम्भो राजकुले गत्वा योगनिद्रां गतस्य भूपतेः सम्मार्जनक्रियां कुर्वन् इदमाह—“अहोऽविवेकोऽस्मद्भूपतेः यत् पुरीषोत्सर्गमाचरन् चिर्भटीभक्षणं करोति” तच्छ्रुत्वा राजा सविस्मयं तमुवाच—“रेरे गोरम्भ ! किमप्रस्तुतं लपसि ! । गृहकर्मकरं मत्वा त्वां न व्यापादयामि। किं त्वया कदाचिदहमेवंविधं कर्म समाचरन् दृष्टः?” सोऽब्रवीत्—“देव! द्यूतासक्तस्य रात्रिजागरणेन सम्मार्जनं कुर्वाणस्य मम बलात् निद्रा समायाता । तथा अधिष्ठितेन मया किञ्चिज्जल्पितम्, तन्न वेद्मि, तत्प्रसादं करोतु स्वामी निद्रापरवशस्येति”। एवं श्रुत्वा राजा चिन्तितवान् “यन्मया जन्मान्तरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तत् यथा अयं व्यतिकरो असम्भाव्यो मम अनेन मूढेन व्याहृतः तथा दन्तिलस्य अपि इति निश्चयः । तन्मया न युक्तं कृतं यत स वराकः सम्मानेन वियोजितः न तादृकपुरुषाणामेवंविधं चेष्टितं सम्भाव्यते । तदभावेन राजकृत्यानि पौरकृत्यानि च सर्वाणि शिथिलतां व्रजन्ति”। एवमनेकधा विमृश्य दन्तिलं समाहूय निजाङ्गवस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास। अतोऽहं ब्रवीमि-“यो न पूजयते गर्वात्” इति

सो दूसरे दिन गोरम्भ राजकुलमें जाकर राजाकी सम्मर्जन क्रिया करता हुआ यह बोला कि—“इस हमारे राजाकी कैसी अज्ञानताहै जो पुरीष उत्सर्ग (मल-त्याग) करनेमें चिर्भटी (काँकुडी) भक्षण करताहै” यह सुन राजा विस्मितहो बोला,—“रे गोरम्भ ! क्या अनहोनी बात कहताहै, घरके कर्म करनेवाला जानकर तुझको नहीं मारताहू, क्या कभी इस प्रकारके कर्म करते तैंने मुझे देखा ?” वह बोला—“स्वामिन् ! जुए खेलनेके कारण रात्रिमें जागनेसे समार्जन करते २


१--ककडी ।