भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 95, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 95

( ८० ) पञ्चतन्त्रम् ।

कथा ५.

कस्मिंश्चिदधिष्ठाने कौलिकरथकारौ मित्रे प्रतिवसतः स्म। तत्र च तौ बाल्यात् प्रभृति सहचारिणौ, परस्परमतीव स्नेहपरौ सदा एकस्थानविहारिणौ कालं नयतः। अथ कदाचित् तत्राधिष्ठाने कस्मिंश्चिद्देवायतने यात्रामहोत्सवः संवृत्तः। तत्र च नटनर्त्तकचारणसंकुले नानादेशागतजनावृते तौ सहचरौ भ्रमन्तौ, काञ्चिद्राजकन्यां करेणुकारूढां सर्वलक्षणसनाथां कञ्चुकिवर्षवरपरिवारितां देवतादर्शनार्थं समायातां दृष्टवन्तौ। अथासौ कौलिकस्तां दृष्ट्वा विषार्दित इव दुष्टग्रहगृहीत इव कामशरैः हन्यमानः सहसा भूतले निपपात । अथ तं तदवस्थमवलोक्य रथकारः तद्दुःखदुःखित आत्मपुरुषैस्तं समुत्क्षिप्य स्वगृहमानाययत् । तत्र च विविधैः शीतोपचारैः चिकित्सकोपादिष्टैः मन्त्रवादिभिरुपचर्यमाणश्चिरात्कथञ्चित्सचेतनो बभूव । ततो रथकारेण पृष्टः । “भो मित्र ! किमेवं त्वमकस्मात् विचेतनः सञ्जातः । तत्कथ्यतामात्मस्वरूपम् ?” । स आह,— “वयस्य ! यदि एवं तच्छृणु मे रहस्यं येन सर्वामात्मवेदनां ते वदामि यदि त्वं मां सुहृदं मन्यसे ततः काष्ठप्रदानेन प्रसादः क्रियतां, क्षम्यतां यद्वा किञ्चित्प्रणयातिरेकाद्युक्तं तव मयानुष्ठितम्” । सोऽपि तदाकर्ण्य बाष्पपिहितनयनः सगद्गदमुवाच— “वयस्य ! यत्किञ्चिद्दुःखकारणं तद्वद येन प्रतीकारः क्रियते यदि शक्यते कर्तुम् । उक्तञ्च—

किसी स्थानमें एक कौलिक और बढ़ई दो मित्र रहतेथे, वह बालकपनसे सहचारी थे; परस्पर अत्यन्त स्नेहवाले सदा एक स्थानमें रहते समय विचरतेथे, तब कभी उस स्थानमें किसी देवताके स्थानमें यात्राका महोत्सव हुआ । वहां नट नर्तक चारणसे युक्त अनेक अनेक देशोंसे आये मनुष्योंसे आवृत्त वह दोनों सहचर घूमते हुए किसी राजकन्याको हथिनीपर चढी सम्पूर्ण गहने पहरे अन्तःपुरके वृद्ध ब्राह्मण और नपुंसकोंसे युक्त देवताके दर्शन करनेके निमित्त आई