भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 76, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 76

( ५४ )

उदकेन पिष्ट्वा, पूर्ववत्—गर्भधारणार्थोक्तवत् आसेचनं दक्षिणनासारन्ध्रे “हिरण्यगर्भः समवर्त्तताग्रे” अद्द्भ्यः सम्भृत इति एताभ्यां—मन्त्राभ्याम् । सम्पूर्णः मन्त्रपाठः—

हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ शु. य २५-१०
अद्द्भ्यः संभृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्त्तताग्रे ।
तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥ शु.य.३१-१७

कुशकण्टकं सोमाशुं शुञ्चैके । १-१४-४

एके—एके आचार्याः न्यग्रोधावरोहशुङ्गैः सह कुशकण्टकं—कुशमूलं, सोमांशुं—सोमलताखण्डं च प्रक्षिपन्ति । अस्मिन् पक्षे द्रव्य-चतुष्टयस्य पेषणम् ।

कूर्म्मपि तंचोपस्थेकृत्वा
स यदि कामयेत वीर्य्यवान्त्स्यादिति विकृत्येनमभि-
मन्त्रयते-सुपर्णोऽसीति प्राग्विष्णुक्रमेभ्यः । १-१४-५

अत्र काम्यप्रयोगमाह—स—भर्त्ता यदि, अयं गर्भः, वीर्य्यवान्-बलवान् स्यादिति कामयेत-इच्छेत् तर्हि भार्य्याया उपस्थे कूर्म्मपित्तं जलपूर्णशरावं कृत्वा-स्थापयित्वा विकृत्या-विकृतिच्छन्दस्कया ऋचा एनं—गर्भम् अभिमन्त्रयते—गर्भं हस्तेन स्पृष्ट्वा मन्त्रं जपतीत्यर्थः । स च मन्त्रः सुपर्णोसीति—सुपर्णोऽसि गरुत्मानित्यारभ्य दिवं गच्छ स्वः पत इत्यन्तः (शु. य. १२/४) प्राग्विष्णुक्रमेभ्यः—विष्णोः क्रमोऽसीत्यादि कण्डिकारम्भात् पूर्वः । प्राग्विष्णुक्रमेभ्य इत्युक्तिस्तु “सुपर्णोऽसि गरुत्मान् पृष्ठे इत्यादि मन्त्रशङ्कावारणाय ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे चतुर्दशी कण्डिका ॥