परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 129, कुल 373 में से
संदर्भ में पढ़ें२१ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९९ वर्णाश्रये नास्ति प्रत्ययलक्षणम् ॥ २१ ॥ -: ० :- भाष्यमते 'तिसृणां धनं त्रिधनमि'त्यादौ तिस्रादेशापत्तिश्चेति वाच्यम्; साक्षात् लुप्तप्रत्ययाव्यवहितपूर्वत्वनिष्ठप्रकारतानिरूपितविशेष्यता यत्राङ्गपर्याप्तिधर्मा- वच्छिन्ना, तत्र 'न लुमते'त्यस्य प्रवृत्तिस्वीकारेण अव्यवहितपूर्वत्वस्याङ्गविशेषित- निर्दिश्यमानेऽन्वयेन तन्निष्ठविशेष्यताया अङ्गपर्याप्तिधर्मावच्छिन्नत्वात् 'निर्जरधनम्, त्रिधनमि'त्यादौ 'न लुमते'ति निषेधस्य प्रवृत्तेः सुलभतया विभक्तिपरकत्वाभावेन तदप्राप्तेः। 'गोहितमि'त्यत्र तु अजव्यवहितपूर्वत्वस्यैव विशेषणत्वेन तन्निष्ठविशेष्य- ताया अङ्गपर्याप्तिधर्मावच्छिन्नत्वाभावान्न 'न लुमते'त्यस्य विषयः। एवम् 'उत्क्रामे'- त्यादावपि बोध्यम्। न च 'एचोऽयवायाव' इत्यस्य शब्दानित्यत्ववारणाय 'अजव्यवहितपूर्वत्व- विशिष्टस्यैजन्तस्यार्थबोधनायोच्चारणप्रसङ्गे अयादिघटितमुच्चारणीयमि'त्यर्थस्य करणेन 'गोहितमि'त्यत्र 'न लुमते'त्यस्य प्रवृत्तिः सुलभेति वाच्यम्; एवमर्थस्वीकारे अगा- गमपक्षे 'गो+अ+अग्रमि'ति स्थिते अगागमघटकाजव्यवहितपूर्वत्वविशिष्टस्य 'गो' इत्येतस्यैजन्तस्य आगमसमभिव्याहृतस्य निरर्थकस्यार्थबोधनाय प्रसङ्गाभावेन तत्र अवाद्यनापत्त्या अग्रन्यासस्थापनपरभाष्यविरोधापत्तेः, 'गो-ए' एतत्समुदायघटकस्य 'गो' इत्येतन्मात्रस्यापगमे शब्दानित्यत्वस्य तदवस्थत्वाच्च। न च 'गो+ङे, हित+सु' इत्यवस्थायामेव अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते' इति न्यायेन इत्संज्ञालोपौ बाधित्वा लुकि कृते प्रत्ययलक्षणेऽपि अच्परकत्वाभावादवादेशाप्राप्ति- रिति वाच्यम्; ज्ञापकसाजात्यादित्संज्ञालोपविषये अन्तरङ्गानपीति न्यायस्याप्रवृत्तेः। भाष्यमत इति । तन्मते प्राधान्येन अप्राधान्येन वा अलाश्रये विधौ प्रत्ययलक्षण- सूत्राप्रवृत्तेः पूर्वत्र दोषाभावादिति भावः । त्रिधनमित्यादाविति । त्रिधनमिति परमत्रिधन- मित्यस्योपलक्षणम् । एतेन-त्रिरूपनिर्दिश्यमानस्य अङ्गरूपतया तत्पर्याप्तोद्देश्यताया लुप्त- प्रत्ययाव्यवहितपूर्वत्वेन साक्षादवच्छिन्नतया निषेधप्राप्तेः सुलभतया इदमसङ्गतमिति परास्तम् । अङ्गपर्याप्तिधर्मावच्छिन्नेति । साक्षात् परम्परया वा तेन धर्मेणावच्छिन्नेति तदर्थः । ज्ञापकसाजात्यादि । अत्र केचित्-लाघवात् संज्ञामात्रविषये तन्न्यायाप्रवृत्ति- रित्येव ज्ञाप्यताम् । अत्र एव इहापि किञ्चित्तपो भाष्यं सङ्गच्छते । अन्यथा सम्बुद्धिसंज्ञां बाधित्वा पूर्वं लुकि पश्चात् प्रत्ययलक्षणेऽपि सम्बुद्धिपरत्वाभावेन गुणाप्राप्त्या तदसङ्गतिरेव स्यात् । प्रत्यय- लक्षणे सम्बुद्धिसंज्ञा तु न भविष्यति, प्रत्ययोद्देश्यककार्ये तदप्राप्तेरित्याहुः । तन्न; सामान्येन संज्ञाविषये तन्न्यायाप्रवृत्त्यङ्गीकारे 'राजपुरुषः' इत्यत्र पूर्वं भसंज्ञाप्रवृत्त्या नलोपानापत्तेः । तस्मात् पूर्वोक्तभाष्यानुरोधात् ज्ञापकसाजात्याच्च प्रत्ययस्य पर्याप्त्याऽपर्याप्त्या वा संज्ञायां कर्तव्यायाम् उक्तन्यायो न प्रवर्तेत इत्येव कल्पनं युक्तमित्येतत्फलितमाह-इत्संज्ञालोपविषय इत्यादिः ।