परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 131, कुल 373 में से
संदर्भ में पढ़ेंविशेषणत्वरूपं प्रत्ययनिरूपितविशेष्यतारूपं च, तेन 'गोहितमि'त्यादौ अवादि न, 'चित्रायां जाता, चित्रे'त्यादौ अण्योऽकारस्तदन्तान् ङीबिति ङीप् च न । इयमल्विधौ स्थानिवत्त्वाप्राप्तावपि प्राप्तप्रत्ययलक्षणविधेर्निषेधिकेति स्पष्टं भाष्ये ॥ २१ ॥ नन्वतः 'कुकमी'त्यत्र कमिग्रहणेन सिद्धे कंसग्रहणं व्यर्थमत आह— उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ॥ २२ ॥ —: ० :— इदमेवास्या ज्ञापकमिति कैयटादयः । कंसेस्तु न, कंसोऽनभिधानात् । 'प्रत्ययस्य लुगि'त्यादौ भाष्ये स्पष्टा । 'ण्वुल्तृचावि'त्यादौ भाष्ये व्युत्पन्नानीत्यपि । वस्तुतस्तु—प्रत्ययप्राधान्यमुक्तवर्णप्राधान्यभिन्नत्वम्, तेन 'गोहितमि'त्यत्र प्रत्य- यस्य स्वावयवे विशेषणत्वेऽप्युक्तप्राधान्याभावान्न दोषः । प्रत्ययनिरूपितविशेष्यतारूपम्= स्वावयविनिष्ठप्रकारतानिरूपितविशेष्यत्वरूपम् । अस्योदाहरणं चित्रेति, आद्योदा- हरणं गोहितमिति । वस्तुतस्त्वाद्यलक्षणेनैव द्विविधवर्णप्राधान्योदाहरणसङ्ग्रहे द्वितीय- लक्षणं निष्फलमिति तत्त्वम् ॥ २१ ॥ कमिग्रहणेनेति । धातुग्रहणे तदादिविधिना कमादावुत्तरपदे इत्यार्थादिति भावः । अव्युत्पन्नानीति । प्रकृतिप्रत्ययविभागज्ञानापूर्वकंपाणिनिशास्त्रप्रवृत्त्यभाववन्तीत्यर्थः । उणा- दय इत्यस्य उणाद्यन्तानीत्यर्थः । इदमेवेति । कंसग्रहणमेवेत्यर्थः । अनभिधानादिति । 'कमेः सः कंस' इति भाष्योक्तेरिति भावः । प्रत्ययस्य लुगित्यादाविति । तत्र हि प्रत्ययग्रहणाभावे 'कंसोयपरश्वव्योः' इत्यत्र प्रकृतेर्लुगन्निवृत्त्यर्थमवश्यं 'छ्यतोरि'ति वाच्यमित्युक्त्वा, कंसावयव-सस्य परश्ववयवो- कारस्य लुग् स्यादित्याशङ्क्य अनया परिहृतम् । 'सर्पिषा, यजुषे'त्यादौ षत्वादि कार्यं तु कारुवायादिशब्दानां व्याकरणान्तरीयरीत्या ज्ञातसाधुत्वकानामस्मिन्नपि व्याकरणे साधुत्वाभ्यनुज्ञानायाऽऽरब्धे 'उणादयो बहुलमि'ति सूत्रे बहुलग्रहणेन साधनीयम् । ण्वुल्तृचावित्यादाविति । तत्र हि तृचश्चकारः 'अप्तृन्नि'त्यत्र विशेषणार्थः, अन्यथा 'मातरावि'त्यादावपि 'प्राप्नोती'त्युक्त्वा, नप्त्रादिग्रहणस्य नियमार्थत्वेन मूले— अल्विधौ स्थानिवत्त्वाप्राप्तावपीत्यादिः । भाष्यमते 'अतृणेडे'त्यादीनाम्, वार्तिक- मते 'सुदृषत्प्राकारः' इत्यादीनाञ्च सिद्धिप्रकारोऽन्यतोऽवसेय इत्यलम् ॥ २१ ॥