परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 141, कुल 373 में से
संदर्भ में पढ़ें२५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १११ विशेष्यकतदन्तविधेरभावादुत्तरपदस्य विशेषणत्वरूपाद्विशेष्यान्तरासत्त्वेन 'उत्तमैकाभ्या- मि'ति निर्देशज्ञापितवचनेन तदादिविशेष्यकतदन्तविधेरप्यभावे 'हृल्लेख' इत्यत्र हृदा- देशाप्राप्त्या स्वांशे चारितार्थ्यमिति वदन्ति । न च 'उत्तरपदाधिकारे प्रत्ययग्रहणे' इति परिभाषास्वीकारे 'रात्रेः कृतो'त्यत्र कृदन्त इत्यर्थानापत्तिः । न च सूत्रवैयर्थ्यम्, अशब्दादाचारक्विबन्तात् ण्वुलि अलोपे 'रात्रिमक' इत्यादौ कृद्रूपोत्तरपदसम्भवादिति वाच्यम् ; ज्ञापकसाजात्यात् श्रावणप्रत्यक्ष- विषयतावच्छेदकधर्मेण साक्षादवच्छिन्नमुख्यविशेष्यताप्रयोजकपद एवैतत्परिभाषाप्रवृत्तेः कृत्पदस्य तथात्वाभावेन परिभाषाविषयाभावात् । अत एव खित्यनव्ययस्य' इत्यादौ तदन्तविधिः । 'उपसर्गस्य घञ्' इत्यादौ 'घञन्त' इत्यर्थलाभस्तु 'अमनुष्य' इत्येतद्विशेष्यक- तदन्तविधेः सत्त्वेन उत्तरपदविशेषकतदन्तविधिनिषेधकस्या