भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 164, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 164

१३४ परिभाषेन्दुशेखरः [ १ प्रकरणं- अत एव च तदन्तविधिसूत्रे भाष्ये समासेत्यादिनिषेधस्य कथनवदस्य न कथनम् । सोऽपि निषेधो विशिष्य तत्तद्रूपेण गृहीतप्रातिपदिकसूत्र एव । ध्वनितं चेदम् 'असमासे निष्कादिभ्य' इति सूत्रे भाष्ये । अत्र च ज्ञापकं 'सपूर्वाच्चे'ति सूत्रम् ; अन्यथा 'पूर्वादिनिरि'त्यत्र तदन्तविधिनैव सिद्धे किं तेन ॥ ३१ ॥ प्रत्ययविधित्वम् । प्रत्ययाधिकारपठितत्वमात्रोक्तौ तु 'अग्रान्ते'त्यादावपि प्रत्ययविधित्वेन व्यपदेशिवद्भावोऽप्रातिपदिकेनेति निषेधात् 'अग्रदन्नि'त्यस्यासिद्ध्यापत्तेः, वक्ष्यमाण- परिभाषाया अपि प्रत्ययविधिविषयत्व एव प्रवृत्तेः । सोऽपि निषेध इति । प्रत्ययविधौ प्रतिषेध इत्यर्थः । विशिष्येत्यस्यार्थमाह— तत्तद्रूपेणेति । उगिद्ग्रहणभिन्नमित्येतन्निषेधबोधितेन उगिद्ग्रहणभिन्नत्वे सतीत्यादि- पूर्वोक्तरूपेणेत्यर्थः ॥ ३१ ॥ यदपि—‘द्व्यचः’ इति सामर्थ्यादेव तदन्तविधिर्न भविष्यतीति । तदपि न ; अनेकालिति न्यासे गौरवात् 'बह्वच्' इति सूत्रयितुमशक्यम्, द्व्यच्कस्याप्राप्तेः । अच इत्यप्यशक्यम् ; एकाच्- कस्यापि प्राप्तेः । न च 'नौद्व्यचष्ठन्' इत्यत्र तदन्तविधिना द्व्यजन्तादित्यर्थः स्यादिति वाच्यम् ; तत्र नौशब्दस्य गृह्यमाणप्रातिपदिकत्वेन विशेष्यत्वे तात्पर्याग्राहिकयाऽनया नौशब्दस्य विशेष्यत्वे सिद्धे द्वन्द्वे साहित्यस्याऽऽवश्यकत्वेन तदर्थे द्व्यच्पदस्यापि विशेष्यत्वस्यावश्यकत्वेन तस्मिन् कल्पिते द्व्यच्पदस्य विशेषणत्वाभावेन 'येन विधिरि'त्यनेन तदन्तविधेरप्राप्तेः । यद्वा—रुक्मिणीशब्दस्य शुभ्रादिगणे पाठकरणसामर्थ्यात् सर्वत्र द्व्यच्पदेन तदन्तविधि- र्नेति सामान्यतो ज्ञापनेन द्व्यच्पदस्य विशेष्यत्वकल्पनेन द्वन्द्वोत्पादकसाहित्यानुपपत्त्या नौशब्द- स्यापि विशेष्यत्वकरणेनादोषःत् । एवं 'वृद्धाच्छः' इत्यत्रापि वृद्धान्तात् प्रातिपदिकादित्यर्थो न भवति ; गहादिगणे उत्तमशाखैकशाख-समानशाखादीनां पाठसामर्थ्यात्तत्र तदन्तविधिनिषेधात् । एवञ्च 'प्रत्ययग्रहणभिन्नत्वम्'त्यस्य प्रत्ययमात्रग्रहणभिन्नत्वमित्यर्थे न मानमिति बोध्यम् । वस्तुतस्तु—प्रत्ययमात्रग्रहणभिन्नत्वमित्याकारकनिवेशे अनुपसर्जनाधिकारेण तदन्तविधि- ज्ञापनपरं भाष्यमेव मानम् ; अन्यथा अशब्दात्तस्येदमित्यर्थेऽणि अल्लोपे च 'अण्'रूपप्रातिपदिकस्य सत्त्वेन तस्य च प्रत्ययवृत्तिविषयताप्रयोजकत्वात् गृह्यमाणप्रातिपदिकत्वाभावेन प्रकृतपरिभाषया तदन्तविधेरनिषेधेन तदन्तविधिना उपसर्जनत्वेऽपि प्राप्तङीप्‌वारणार्थत्वेन अनुपसर्जनादित्यस्य चारितार्थ्यात्तेन तदन्तविधिज्ञापनं भाष्योक्तमसङ्गतं स्यात् । अन्ये तु—वर्णग्रहणभिन्नत्वेत्यादिनिवेशे गौरवात् प्रातिपदिकत्वव्याप्यधर्मावच्छिन्नविष- यताप्रयोजकत्वं गृह्यमाणप्रातिपदिकत्वम् ; प्रत्ययोगिद्ग्रहणादिनिषेधधर्मस्य प्रातिपदिकत्वव्याप्यत्वा- भावेन न तेषु दोषः । व्याप्यत्वञ्च—स्वाभावावद्वृत्तित्वम्, प्रातिपदिकत्वाभाववत्प्रत्ययादि- निरूपितवृत्तितायाः प्रत्ययादिषु सत्त्वात् सिद्धस्तेषु व्याप्यत्वाभावः । ‘नौद्व्यचः, द्व्यचः, वृद्धाच्छः' इत्यादिषु तु पूर्वोक्तरीत्या समाधेयमिति वदन्ति ।