भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 166, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 166

१३६ परिभाषेन्दुशेखरः [ १ प्रकरणे- व्यपदेशिवद्भावोऽप्रातिपदिकेन ॥ ३२ ॥ --:०:-- 'पूर्वात् सपूर्वादिनिर्'त्येकयोगे एव कर्तव्ये पृथग्योगकरणमस्या ज्ञापकम् । न च 'इष्टादिभ्य' इति सूत्रेऽनुवृत्त्यर्थं तथा पाठः, अत एव 'अनिष्टी'- त्यादिसिद्धिरिति वाच्यम्; ज्ञापकपरभाष्यप्रामाण्येन 'अनिष्टी'त्यादिप्रयो- गाणामनिष्टत्वात्, एकयोगेऽपि तावत उत्तरत्रानुवृत्तौ बाधकाभावाच्च । पूर्वात् सपूर्वादिति । न च कैयटोक्तरीत्या सूत्रोपात्तान्तादिशब्दे एवैतत्प्रवृत्त्या कथमेतज्ज्ञापकम्; सूत्रेऽन्तादिपदोपादाने एतत्प्रवृत्तिस्वीकारादेव 'रोण' इत्यादौ व्यपदेशिवद्भावेन रोणीशब्दान्तत्वादणादिसिद्धिः; अन्यथा अनया निषेधाद्व्यपदेशि- वद्भावाप्रवृत्त्या तदनापत्तिरिति वाच्यम् ; तत्रत्यान्तादिशब्दस्य अवयववाचकपरत्वेना- दोषात् । न च 'पूर्वी'त्यस्यासिद्धिः, सपूर्वकत्वस्य पूर्वशब्दे पूर्ववदनतिदेशादिति वाच्यम्; अस्य ग्रन्थस्य 'पूर्वान्तादिनिर्'त्येकयोग एव कर्तव्ये योगद्वयकरणमस्य ज्ञापकमित्या- शयात् । न 'कृतपूर्वी'त्यत्र सूत्रस्य चारितार्थ्येन 'पूर्वी'त्यत्र असामर्थ्यादिन्यनापत्तिः, 'पूर्वादिनिरि'ति योगविभागे तु सामर्थ्यादिसामर्थ्येऽपि तत्प्रवृत्तेरिति वाच्यम्; इष्टादिषु पूर्वशब्दं निवेश्य 'इष्टाद्यन्तेभ्य इनिर्'त्यनेनैव 'कृतपूर्वी'त्यादिसिद्धौ पूर्वा- न्तादिति पृथग्योगकरणेनासामर्थ्येऽपि एतत्प्रवृत्तेरुक्तरूपद्वयसिद्धौ पृथग्योगकरणस्य ज्ञापकत्वे बाधकाभावात् । 'कृतपूर्वी'त्यत्राप्यसामर्थ्याविशेषात् सूत्रवैयर्थ्येनासामर्थ्येऽपि एतत्प्रवृत्तेरावश्यकत्वेन उक्तज्ञापकस्य सुस्थत्वाच्च । ग्रन्थतत्त्वविदस्तु—'एकयोगे' इति ग्रन्थस्य गणे पूर्वान्त' इति प्रपठ्य 'इष्टादिभ्य इनिरि'त्येवंरूपे एकस्मिन् योगे कर्तव्ये इष्टादिभ्य इत्यतः पृथग्भिन्नं पूर्वात्सपूर्वा- दिति योगयोः करणं 'पूर्वादिनिः सपूर्वाच्चे'त्येवंरूपमस्या ज्ञापकमित्यर्थः, न तु 'पूर्वात् सपूर्वादिनिरि'त्येवंरूपे एकयोगे इत्यर्थः । एकयोगेऽपीति । इष्टादिभ्य इति कैयटोक्तरीत्येति । एतत्तत्त्वं प्रागेवाभिहितम् । पूर्वान्तादिनिरिति । एतदेवाभि- प्रेत्य सूत्रोपात्तान्तादिशब्दविषय एव प्रकृतपरिभाषायाः प्रवृत्तिरिति कैयटेनोक्तमित्यवगन्तव्यम् । सुस्थत्वाच्चेति । नन्वेवमपि 'पूर्वात् सपूर्वादिनिरि'त्येकयोग एव कर्तव्ये इति मूलग्रन्था- सङ्गतिः, 'यत्तर्हि योगविभागं करोति, इतरथा हि पूर्वात् सपूर्वादिनिरित्येव ब्रूयादि'ति 'येन विधिरि'ति सूत्रस्थज्ञापकपरभाष्यासङ्गतिः । किञ्च पूर्वशब्दं निवेश्य इष्टाद्यन्तेभ्यः इति न्यासे 'न चे'त्यादिशङ्का-समाधानपरमूलग्रन्थासङ्गतिश्चेत्यत आह—ग्रन्थतत्त्वविदस्त्विति । मूले—ज्ञापकपरभाष्यप्रामाण्येनेति । पूर्वशब्दमिष्टादिषु पठित्वा पूर्वान्तादिनिरित्येक- योग एव कर्तव्ये पूर्वान्तादिनिः, इष्टादिभ्यश्चे'ति भिन्नयोगकरणसामर्थ्यात् तादृशप्रयोगाणां मुनि- त्रयमतेऽनिष्टत्वात् तादृशभाष्यप्रामाण्येनेति भाष्योपष्टम्भकस्याप्रयोजकत्वमिति ध्येयम् ॥ ३२ ॥