परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 177, कुल 373 में से
संदर्भ में पढ़ें३७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १४७ एकदेशविकृतमनन्यवत् ॥ ३७ ॥ —: ० :— अनन्यवदित्यस्यान्यवन्नेत्यर्थः ; तत्रान्यसादृश्यनिषेधेऽन्यत्वाभावः समुदायघटकत्वेन तादृशविधेयताश्रयावधिकपूर्वत्वेन च तत्सिद्धेः । 'पूर्वोऽभ्यास' इत्यनेन द्वित्वशास्त्रीयविधेयताश्रय द्वित्वशास्त्रीयोद्देश्यताश्रयैतदुभयमात्रारब्धसमुदाय- घटकस्यैव तादृशविधेयताश्रयावधिकपूर्वस्य अभ्याससंज्ञाविधानात् 'नोर्णु' इत्यस्याभ्यास- संज्ञाप्रसङ्ग इति बोध्यम् । एकदेशविकृतमिति । एकदेशः = स्वावयवो विकृतमिति भावक्तान्तप्रकृतिकार्श- आद्यजन्तम् । अनन्यवत् = स्ववदित्यर्थः । तथा च स्वावयवविकारघटितं स्ववद्भवतीति यावत् । अत्रैकदेशेन विकृतमेकदेशो वा विकृतो यस्येति व्युत्पत्तिद्वयं तु न