परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 183, कुल 373 में से
संदर्भ में पढ़ें२ प्रकरणे ३८-३९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५३ अथ बाधबीजनाम द्वितीयं प्रकरणम् -: ० :- पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः ॥ ३८ ॥ पूर्वात्परं बलवत् , विप्रतिषेधशास्त्रात् पूर्वस्य परं बाधकमिति यावत् ॥ ३८ ॥ नन्वेवं 'भिन्धी'त्यत्र परत्वात्तातङा बाधितो धिर्न स्यादत आह— पुनः प्रसङ्गविज्ञानात्सिद्धम् ॥ ३९ ॥ -: ० :- अथ भूतिलके द्वितीयं प्रकरणम् शास्त्रत्वसम्पादकोद्देशप्रकरणानन्तरं क्रमप्राप्तं बाधबीजप्रकरणमारभमाणस्तद्- बीजानि सङ्कल्य दर्शयति—पूर्वपरेति । उत्तरोत्तरं बलीय इति । आनुपूर्व्ये द्वे वाच्ये इति द्वित्वम् । पूर्वपरेति समस्तपदघटक-पूर्वपूर्वपदप्रतिपाद्य-शास्त्रापेक्षया उत्तरोत्तरपद- प्रतिपाद्यशास्त्रस्य बलवत्त्वमित्यर्थः । तथा च सति विरोधे बलीयसा दुर्बलं बाध्यत एवेति तु लोकतः सिद्धम् । अनुमानप्रयोगमाह—पूर्वादिति । 'परशास्त्रं पूर्वशास्त्रावधिकबलवत् परशास्त्र- त्वात्' । पक्षतावच्छेदकस्य हेतुत्वेनांस्य अप्रयोजकतया विपरीतशङ्काकलुषितत्वात् तन्निरासायाऽऽह—विप्रतिषेधशास्त्रादिति । एतेन विप्रतिषेधशास्त्ररूपहेतोः शब्दरूपत्वेन आकाशवृत्तित्वाद्वैयधिकरण्येन नानुमानसम्भव इत्यपास्तम् ॥ ३८ ॥ नन्वेवमिति । एवम् = परशास्त्रस्य परत्वरूपबलवत्त्वेन बाधकत्वकल्पनायाम् । धिर्न स्यादिति । अत्र केचित्—तातङ्विधेर्वैकल्पिकत्वेन तदभावपक्षे ध्यादेशेनोक्त- रूपसिद्धेरवतरणासङ्गत्या 'भिन्धको'त्यत्र धिना परत्वाद बाधितोऽकज् न स्यादिति पाठभेदेन अवतारयन्ति । तन्न ; घेरन्तरङ्गत्त्वेनातुल्यबलत्वात् परत्वेन बाधासम्भवात् । अत एव भाष्ये 'अन्तरङ्गत्वाद्वित्वेकजि'त्येवोक्तम् । यत्त—विकल्पस्थलेऽभावस्यापि विधेयत्वेन 'तातङा बाधित' इत्यस्य 'तातङ- भावेन बाधित' इत्यर्थादवतरणसङ्गतिरिति केचित् । तदपि न समीचीनम् ; अप्राप्त- विभाषास्थलेऽभावस्य सिद्धत्वेन शास्त्रेण तद्विधानासम्भवात् । अत एव 'मुमुक्षत' इत्यत्र 'मुचोऽकर्मंस्ये'ति गुणाभावपक्षे अत्र 'लोपोऽभ्यासस्ये'त्यभ्यासलोपो न । अन्ये तु—'भिन्धी'ति भिन्तादित्यस्योपलक्षणम्, क्वचिद् भिन्तादित्येव मूल- पाठः । तथा च 'भिन्तादि'त्यत्र तातङा बाधितो धिर्नैव स्यादिति तातङि स्थानि- वद्भावप्रतिषेधानर्थक्यमिति शङ्कायामाह—पुनः प्रसङ्गेति । अत एव 'पुनः प्रसङ्ग- २०