परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 186, कुल 373 में से
संदर्भ में पढ़ेंपक्ष एव सर्वविषयत्वं न जातिपक्ष इत्यत्र मानमस्ति । अपि च व्यक्तिपक्षेऽप्यन्यव्यक्तिरूपविषयलाभेन चरितार्थयोर्व्यक्ति- विरोधात्स्वविषयकत्वं न कल्पयतीति वक्तुं शक्यम्। जातिपक्षेऽपि तज्जात्या- श्रयतद्व्यक्तिविषयकत्वमेव नैतद्व्यक्तिविषयत्वमित्यत्र विनिगमकाभावः । तत्र लक्ष्यानुसारात् क्वचिच्छास्त्रीयदृष्टान्ताश्रयणम्, क्वचिल्लौकिक- दृष्टान्ताश्रयणमिति भाष्यसम्मतमार्ग एव युक्त इति बोध्यम् । द्वयोः कार्ययोर्यौगपद्येनासम्भव एव विप्रतिषेधशास्त्रोपयोगी । इदम्
कैयटमतं दूषयित्वा स्वमतं निगमयति—तत्रेति । शास्त्रीयदृष्टान्तेति । 'तृजादिभि- स्तुल्यं पर्यायः प्राप्नोती'ति भाष्योक्ततृजादिदृष्टान्तेत्यर्थः। लौकिकेति। यथा 'तुल्यबले'ति भाष्योक्तलौकिकदृष्टान्तेत्यर्थः । यौगपद्येनासम्भव इति । एकस्मिन् प्रयोगे यौगपद्येनासम्भवो विप्रतिषेध- शास्त्रप्रवृत्त्युपयोगी, न तु केवलमेकस्य कार्यद्वयासम्भव एव । अत एव भाष्ये
कैयटमतं दूषयित्वेति । अयम्भावः—कैयटः व्यक्तिपक्षे प्रतिलक्ष्यं लक्षणोपप्लवात् 'राम + भ्यस्'इत्यर्थमुपप्लुत-'सुपि च, बहुवचने झल्येदि'त्येतयोरचारितार्थ्यात् तृजादिदृष्टान्तेन अन्यतरत्वेन व्यापकत्वं व्यापकत्वकुक्षिप्रविष्टाधिकरणतायां वा सङ्कोचे निरुक्तलक्ष्ये उभयोः पर्यायेण प्राप्तौ परनियमत्वार्थत्वेन सकृद्गतिन्यायसिद्धिः। जातिपक्षे हि उपप्लवाभावात् क्वचित् चारितार्थयोः 'सत्प्रतिपक्ष'न्यायेन निरुक्तलक्ष्येऽप्राप्त्या परविध्यर्थत्वेन 'पुनः प्रसङ्ग- विज्ञान'न्यायसिद्धिरित्याह । तन्न ; उभयपक्षेऽपि सम्भवति लघुधर्मस्य व्यापकतावच्छेदकत्वे गुरुधर्मस्य तत्त्वासम्भवेन उद्देश्यतावच्छेदके सङ्कोचः स्यादित्युभयन्यायासिद्धिरिति नागेशेनोक्तम्- 'व्यक्तिपक्ष' इत्यारभ्य 'अपरोऽशास्त्रोक्तः' इत्यन्तेन । तत्र कैयटः प्रत्यवतिष्ठते—'नैवम्, यतो ह्युद्देश्यतावच्छेदके सङ्कोचे व्यक्तिपक्षे तल्लक्ष्ये उभयोरप्राप्तौ उपप्लुतशास्त्रवैय्यर्थ्यमेव स्यादिति तत्राधिकरणतायामेव सङ्कोचः । जातिपक्षे तु सूत्रवैय्यर्थ्याभावात् सम्भवति उद्देश्यतावच्छेदके सङ्कोच' इति ; अत आह नागेशो मूले—किञ्चेति । तृजादिदृष्टान्तेनाधिकरणतायां सङ्कोचे तस्य च दृष्टान्तस्य जातिव्यक्त्युभयपक्षकत्वे बाधकाभावेन जातिपक्षेऽप्यधिकरणतायां सङ्कोचे उभय- न्यायासिद्धिस्तदवस्थैवेति तदाशयः । न केवलं प्राप्तिमात्रेणाधिकरणतायां सङ्कोचः, अपि तु यत्रोभयशास्त्रवैयर्थ्यं तत्रैवा- धिकरणतायां सङ्कोचः । अन्यथा 'श्रीशः' इत्यत्र 'इको यणचि' इत्यस्य 'अकः सवर्णे दीर्घः' इत्यस्य च प्राप्त्या तत्राप्यधिकरणतायां सङ्कोचे पर्यायापत्तिर्दुर्द्धरैव स्यात् । तस्मात् सूत्रवैयर्थ्ये- ऽधिकरणतायां सङ्कोचः, तत्सार्थक्ये च उद्देश्यतावच्छेदके एव । तत्र सूत्रवैयर्थ्यं व्यक्तिपक्षे एव, न जातिपक्षे इति तत्र तृजादिदृष्टान्तप्रसक्तिरिति कैयटाभिमतमाशयं खण्डयन्नाह नागेशो मूले-अपि चेति । यत्रोपप्लवकशास्त्रवैयर्थ्यं तत्रैवाधिकरणतायां सङ्कोचो न पुनरुपप्लुतशास्त्रवैयर्थ्यं तत्प्रयो- जकम् । अत एव व्यक्तिपक्षे 'श्रीशः' इत्यत्र यण् न इति तदाशयः । तस्माल्लक्ष्यानुरोधेन क्वचित् तृजादिदृष्टान्ताश्रयणम्, क्वचिच्च लौकिकन्यायाश्रयणमिति भाष्यसम्मत एव पक्षः श्रेयानिति तत्त्वम् ।