परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 195, कुल 373 में से
संदर्भ में पढ़ें४६-४८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १६५ यदा तु शास्त्रव्यतिरेकेण तद्विधेयकार्ययोरेव नित्यत्वादिविचारो यदाऽपि व्यक्तिविशेषाश्रयणाभावः, तदाऽऽह— क्वचित् कृताकृतप्रसङ्गमात्रेणापि नित्यता ॥ ४६ ॥ —: ❀ :— कृते द्वितीये नित्यत्वेनाभिमतस्य पुनः प्रसङ्गमात्रं नित्यत्वव्यवहारे प्रयोजकम् , न तु बाधकाबाधितफलोपहितप्रसङ्गोऽपि तथेति भावः ॥४६॥ तदाऽऽह— यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् ॥ ४७ ॥ —: ✻ :— क्वचित्तु बाधकाबाधितफलोपहितप्रसङ्ग एव गृह्यते ; तदाऽऽह— यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम् ॥ ४८ ॥ —: ❀ :— परत्वाद् गुणे कृते रूपासिद्धिरत आह—यदा त्विति । एवञ्च लक्ष्यानुरोधादेषैव परिभाषा तत्र स्वीक्रियत इति भावः । कृताकृतप्रसङ्गि नित्यमिति प्रथमांशघटकप्रसङ्गांशे बाधकाबाधितत्वरूपविशेषण- सत्त्वासत्त्वद्वैविध्येनोक्तपरिभाषाऽपि द्विविधेत्याशयेऽऽनाह—कृते द्वितीय इति ॥ ४६ ॥ बाधकाबाधितफलोपहितप्रसङ्ग एवेति । इदमेव तु सार्वत्रिकमिति तत्त्वम् । कृते द्वितीय इतीति । यस्य च लक्षणान्तरेणेत्यस्योदाहरणं त्वामाचष्टे, त्वापयती'- त्यादि । मपर्यन्तस्य त्वमौ पररूपात्पूर्वं नित्यत्वाट्टिलोपः, वृद्धिः, पुक् । अत्र पररूपे कृते एकचा- त्वात् 'प्रकृत्यैकाजि'ति प्रकृतिभावेऽपि टिलोपस्य प्रसङ्ग इति यस्य लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यमिति प्रकृतपरिभाषया नित्यत्वात् टिलोपस्यैव प्रवृत्तेः । न चान्तरङ्गतवात्पररूपे प्रत्येकाजिति प्रकृतिभावे च 'त्वादयति, मादयति' इत्येवं रूपमिति वाच्यम् ; 'नाजानन्तर्यं' इति सत्त्वे तन्निषेधात्, तदसत्त्वे अन्तरङ्गपरिभाषाया अनित्यत्वाच्च । नन्वेवमपि वार्णपरिभाषया टिलोपस्यैव प्रवृत्तेष्टिलोपस्य नित्यत्वं नोपयुज्यत इति चेत्, तदा उदाहरणान्तरं मृग्यम् । धर्मिग्राहकमानाद्भावकार्य विषय एव वार्णपरिभाषा-प्रवृत्तिरित्यन्ये ॥ ४६ ॥ सार्वत्रिकमितीति । एतद्वचनोदाहरणं 'स्योनः' इति । अत्र 'गुणात् पूर्वं नित्यत्वादूठ् गुणस्तु ऊठि यणा बाधितत्वादनित्य' इति मूले स्पष्टम्, 'अस्मै' इति च कौमुद्यां स्पष्टम् ।