परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 197, कुल 373 में से
संदर्भ में पढ़ें४९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १६७ यत्र त्वेकस्यैव कार्यस्य परत्वं नित्यत्वं च, तत्रेच्छयाऽन्यतरत्तदुभयं वा तस्य बलवत्त्वे नियामकमुल्लेख्यम् । अत एव तत्र तत्र परत्वान्नित्य- त्वाच्चेति भाष्ये उच्यते । वस्तुतस्तत्र परत्वादित्युक्तिरेकदेशिनः । स्पष्टं चेदं विप्रतिषेधसूत्र- कैयटे । 'णौ चङि'ति ह्रस्वापेक्षया नित्यत्वान्तरङ्गत्वप्रयुक्तद्वित्वस्य प्रथमतः प्रवृत्तौ नित्यत्वादित्येव भाष्य उक्तम् । एवं नित्यान्तरङ्गयोर्बलवत्त्वमपि यौगपद्यासम्भव एवेति बोध्यम् ॥ ४९ ॥ नब्विषयस्येत्याद्युदात्तत्वेन इकारस्यानुदात्तस्य यणादेशः प्राप्नोति । उदके केवल इति कृते तु 'उदात्तस्ये'ति स्वरान्तरस्य प्राप्तत्वेन यणादेशोऽनित्यः । तथा च तं बाधित्वा उदके केवल इत्यस्य परत्वात्प्रवृत्त्याऽन्तोदात्तस्य यणि 'उदात्तस्वरितयोर्यण' इति स्वरितत्वमुकारस्य सिद्ध्यतीति भावः । अन्यतरत्तदुभयं वेति । न च तस्य नित्यत्वे तुल्यबलविरोधाभावेन विप्रति- षेधसूत्राप्रवृत्तेरेतदयुक्तमिति वाच्यम् ; विप्रतिषेधे नित्यान्तरङ्गापवादभिन्नेन पूर्व- शास्त्रेण सह परशास्त्रस्य विरोधे सति परं कार्यमिति विप्रतिषेधसूत्रार्थेन परशास्त्रस्य नित्यत्वेऽपि पूर्वशास्त्रस्य नित्यत्वाद्यभावेन विप्रतिषेधसूत्रप्रवृत्तौ बाधकाभावात् । पूर्वपदार्थे नित्यादिभिन्नत्वविशेषणदानेनोपपत्तौ परपदार्थेऽपि तद्विशेषणदाने माना- भावात् । तुल्यबलविरोध इति वृत्तेरपि तुल्यबलेन नित्यादिभिन्नेन पूर्वशास्त्रेण सह विरोध इत्येवार्थः, न तु 'तुल्यबलयोर्विरोधे' इत्यर्थो मानाभावात् फलाभावाच्च । न च द्वयोर्नित्यत्वेऽन्तरङ्गत्वे वा परत्वाद् बाधो न स्यात् पूर्वशास्त्रस्य तद्भिन्नत्वा- भावादिति वाच्यम् ; स्ववृत्तिनित्यत्वाभावविशिष्टं यन्नित्यत्वं तदभाववता स्ववृत्ति- तन्निरूपितान्तरङ्गत्वाभावविशिष्टं यदन्तरङ्गत्वं तदभाववता चेति पूर्वपदार्थे विशेषणदानेन अदोषात् । एवं 'परान्नित्यमि'त्यत्र परपदार्थे स्ववृत्तितन्निरूपिता- न्तरङ्गत्वाभावविशिष्टं यदन्तरङ्गत्वं तदभाववतेति विशेषणं देयम्, तेन द्वयोरन्त- रङ्गत्वेऽपि नित्यत्वाद् बाधसिद्धिरिति दिक् । पूर्वशास्त्रस्य नित्यान्तरङ्गत्वापवादत्वे तु अतुल्यबलत्वं स्पष्टमेव । अत्रैवोपोद्- बलकमाह—अत एवेति । परत्वादित्युक्तिरेकदेशिन इति । पूर्वोक्त-यत्त्वित्यादिना प्रतिपादित-केचिन्मते तु नित्यत्वादित्युक्तिरेवैकदेशिन इति दिक् । यौगपद्यासम्भव इति । विरोधे सत्येव बल- वता दुर्बलस्य बाधदर्शनादिति भावः ॥ ४९ ॥ सिद्ध्यतीति भाव इति । अन्ये तु—स्वर-यणित्यनयोः कृताकृतप्रसङ्गित्वेन नित्यत्वात् परत्वात् स्वरे ततो यणि इष्टसिद्धेर्नतत्फलमिति वदन्ति । परे तु—पूर्वोत्तरपदनिमित्तकार्यात् प्रागन्तरङ्गोऽपि एकादेशो नेत्यत्रैकादेशपदं सन्धि- कार्यस्योपलक्षणम्, तेनैव सिद्धेरिदं निष्फलमित्याहुः ॥ ४९ ॥