परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 199, कुल 373 में से
संदर्भ में पढ़ें५० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १६९ अत्राङ्गशब्देन शब्दरूपं निमित्तमेव गृह्यते, शब्दशास्त्रे तस्यैव प्रधान- त्वात्, तेन अर्थनिमित्तकस्य न बहिरङ्गत्वम्। अत एव 'न तिसृचतसृ' इति निषेधश्चरितार्थः; अन्यथा स्त्रीत्वरूपार्थनिमित्तकतिस्रपेक्षयान्तरङ्ग- त्वात् त्रयादेशे तदसङ्गतिः स्पष्टैव। अत एव त्रयादेशे 'श्रन्तस्य प्रतिषेध' इति 'स्थानिवत्'सूत्रस्थभाष्य-वार्तिकादि सङ्गच्छते। एतेन 'गौधेरः, पचेदि'त्यादौ एयादीनामङ्गसंज्ञासापेक्षत्वेन बहिरङ्ग- वैशिष्ट्यञ्च—स्वनिमित्तकत्व-स्वघटकेतरनिमित्तकत्वोभयसम्बन्धेनेति तत्त्वम्। इदं चान्त- रङ्गस्य नित्यावधिकबलवत्त्वे उदाहरणम्। परावधिकबलवत्त्वे तु 'रियती'त्यादि। अत्र हि परत्वात्प्राप्तं गुणं बाधित्वाऽन्तरङ्गत्वादियडिति बोध्यम्। अत एवेति। अर्थनिमित्तकस्य बहिरङ्गत्वभावादेवेत्यर्थः। न च त्रयादेशोत्तरं तिस्रादेशे दीर्घवारणाय 'न तिस्रि'ति चरितार्थमिति वाच्यम्; त्रयादेशस्यैव दीर्घ- स्याप्यन्तरङ्गत्वेन पूर्वं प्रवृत्तौ पश्चात्तिस्रादेशे लक्ष्ये लक्षण'न्यायेन पुनर्दीर्घाप्राप्त्या सूत्रवैयर्थ्यस्य सुपादत्वात्। न च 'त्रेस्त्रय' इत्यादौ उद्देश्यनिमित्तयोर्विशिष्टरूपत्वेन 'अर्थवद्ग्रहण'परिभाषया उपस्थितार्थद्वयस्य निमित्तत्वेन साम्यमिति वाच्यम्; तिस्रा- देशेऽपि तत्परिभाषोपस्थितार्थस्य स्त्रीत्वरूपार्थस्य विभक्तिसंज्ञारूपार्थस्य चेति त्रयाणां निमित्तत्वेनाऽऽधिक्यात्, त्रेस्त्रय' इत्यादौ परिभाषया उपस्थितार्थस्य द्वेधा भानेऽपि अर्थस्यैक्येन अर्थद्वयनिमित्तकत्वाभावाच्च। गोधेर इति। ननु एयादेरङ्गसंज्ञा-प्रत्ययसंज्ञोभयापेक्षत्वस्येव लोपविधा- यकस्यापि लोपसंज्ञा-वल्संज्ञोभयनिमित्तकत्वेन साम्यम्। न च लोपस्य विधेयत्वेन अनिमित्तत्वम्; लोपस्य विधेयत्वेऽपि संज्ञाया अविधेयत्वेन निमित्तत्वे बाधका- भावात्। किञ्च आयन्नादौ अङ्गसंज्ञाया अन्यथासिद्धत्वेन अनिमित्तत्वमित्यरstore...रुचेराह— पचेदिति। अत्र हि इयादेशस्य अत्संज्ञा, अङ्गसंज्ञा, सार्वधातुकसंज्ञा, स्वं रूपमि'त्येतद्- अर्थद्वयस्य निमित्तत्वेन साम्यमिति। वस्तुतः—तिस्रादेशविधायकस्य अल्पनिमित्त- कत्वमेव, न साम्यम्। तथा हि, 'अर्थवत्'परिभाषोपस्थाने अर्थाश्रयः अर्थत्वार्थेति अंशत्रयो- पस्थानम्। प्रकृते 'त्रेस्त्रयः' इत्यत्र त्र्यंशे आमंशे च 'अर्थवत्'परिभाषोपस्थित्या अंशषट्कोप- स्थितिः, 'त्रिचतुरोः स्त्रियां तिसृचतसृ' इत्यत्र तु स्त्रीत्वरूपार्थस्य तन्निष्ठायाः स्त्रीत्वत्वजातेः 'अर्थवत्'परिभाषया पूर्वोक्तांशत्रयस्य चोपस्थितिरिति पञ्चानामुपस्थितिरिति तिस्रादेशस्यैव चान्त- रङ्गत्वमिति बोध्यम्। अर्थस्यैक्येनेति। अत्र अर्थशब्दोऽभिधेयपरः, तेन 'स्वं रूपमि'ति बोधितस्त्रिशब्दाभि- धेयोऽर्थत्वम्, अर्थश्च गृह्यते। तत्र आद्यस्य जातिरूपस्यैक्येनेति तदर्थः। एवञ्च अर्थत्वेन भाना- दर्थस्य ऐक्यमिति भावः। 'उपस्थितार्थस्य द्वेधा भाने' इत्यत्रापि अर्थशब्दमभिधेयपरं मत्वा अर्थत्वरूपो व्याख्येयः। एतेन प्रकृत्यर्थप्रत्ययार्थयोरैक्यस्य उपपादनासम्भवादिदमयुक्त- मित्यपास्तम्। २२