परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 203, कुल 373 में से
संदर्भ में पढ़ें५० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १७३ किञ्च सिद्धान्ते नित्यत्वाद् गुणात् पूर्वमूह्, गुणस्तु ऊठि यणा बाधितत्वादनित्यः । ऊनशब्दमाश्रित्येत्यादिभाष्येण च परिभाषायामङ्ग- शब्देन सप्तम्याद्यन्ततयोपात्तं शब्दरूपं निमित्तमेव गृह्यत इति स्पष्ट- मेवोक्तम् । ननु भाष्यस्यान्यथोपपत्त्यभावात् कैयटोक्तमेवाऽवश्यकमित्यतो भाष्यं स्वमते लापयति—किञ्चेति । किन्त्वित्यर्थः । सप्तम्याद्यन्ततयेति । इदमन्तरङ्गशास्त्रीयं निमित्तम्, बहिरङ्गशास्त्रीयन्तु षष्ठ्याद्यन्तपदोपात्तमपि ग्राह्यमित्यर्थः । तथा च बहिरङ्गत्वेन विवक्षितं यच्छास्त्रं तद्घटकेन सप्तम्यन्तेन पञ्चम्यन्तेन षष्ठ्यन्तेनान्येन वा प्रथमान्त- भिन्नेन केनचित्पदेन आश्रीयमाणो यावान् शब्दसमुदायस्तद्घटको यच्छास्त्रीय- सप्तम्यन्तपञ्चम्यन्तान्यतरपदेन गृह्यते, तदन्तरङ्गमित्यर्थः । यण्शास्त्रीयसप्तम्यन्तेन आश्रीयमाण 'ऊन' इति समुदायस्तद्घटको नशब्दो गुणशास्त्रस्थेन सप्तम्यन्तेन गृह्यत इति तदन्तरङ्गम् । गुणशास्त्रस्थाङ्गपदेनाऽऽश्रीयमाणः 'सिव्' इति, तद्घटक ऊशब्दो नाच्शब्देन गृह्यते, अच्शब्दस्याजादीत्यर्थात् ससहाये व्यपदेशिवद्भावाप्रवृत्तेः । न च भाष्यमते ससहायेऽपि व्यपदेशिवद्भावप्रवृत्तेरुक्तभाष्यविरोध इति वाच्यम् ; अन्तरङ्गशास्त्रीयसप्तम्यन्तपदेन गृह्यमाणस्य तत्पदप्रयोज्यविषयतापर्याप्त्यधिकरणघटक- पूर्वत्वाभाववतो ग्रहणेनादोषात् । एतेन ईदृशान्तरङ्गत्वस्वीकारे वक्ष्यमाणज्ञापका- सङ्गतिः, 'नाजानन्तर्य' परिभाषावतरणादसङ्गतिश्च स्यादिति परास्तम् । इत्याशयेनाह—नन्विति । चकारस्य दोषसमुच्चयार्थकत्वासम्भवादाह—किन्त्वित्यर्थ इति । ननु सिद्धान्ते तथा सिद्धाऽपि पूर्वपक्षे गुणस्यैवान्तरङ्गत्वाद् ऊडुत्तरं प्राप्त्या तस्यापि नित्यत्वात् परत्वाद् गुणे कृते ऊठ्, तदुत्तरं यण्-गुणयोरन्तरङ्गत्वविचारपरकभाष्यासङ्गतिरेव त्वन्मते इति चेत्—अत्रोच्यते, आपाद्यमानेऽर्थे न्यायानादर इति तदन्तविधिपक्षे दोषदानतत्परंभाष्यकारै- र्नैतच्चिन्तितम् । यदि न भवति चेत्तदपि दूषणं शोध्यम् । यद्वा—यणो गुणबाधकत्वोक्त्या गुणस्य नित्यत्वविघटन एव प्रकृतभाष्यतात्पर्यमित्याशयः । गुणाद्यणादेशोन्तरङ्ग इत्यस्य तदन्तविधिपक्षे ऊनशब्दमाश्रित्य यणादेश इत्यस्य चायं भावः—'सिव् + न' इति स्थिते गुणोठोः प्राप्तौ परत्वाद् गुणे प्राप्ते नित्यत्वादूठ् । न च गुणोऽपि नित्यः, ऊठि कृते गुणयणोः प्राप्तौ तदन्तविध्यभावकल्पे- ऽन्तरङ्गत्वाद्यणा बाधित्वाद् गुणस्यानित्यत्वम् । तदन्तविधिपक्षे तु ऊठि कृते बहिरङ्गं यणं बाधित्वा अन्तरङ्गत्वाद् गुणस्यैव प्राप्त्या गुणस्यापि तदपेक्षया नित्यत्वात् परत्वादूठं बाधित्वा गुण एव स्यात् । तथा च ऊठो नित्यत्वोपपादने एव तात्पर्यम्, न तु ऊडुत्तरं प्राप्तयोर्यण्गुणयो- रन्तरङ्गत्वबहिरङ्गत्वबोधने तात्पर्यमिति । एवञ्च भाष्यसङ्गतेस्तदर्थं न संज्ञाकृतबहिरङ्गत्व- स्याश्रयणमिति बोध्यम् । व्यपदेशिवद्भावप्रवृत्तेरिति । 'निजी चत्वार एकाच' इति भाष्यादिति भावः । अदोषादिति । नन्वेवं 'ग्रामणिनी'त्यत्र बहिरङ्गत्वेनाभिमत-नुम्शास्त्रीयं यत्किञ्चित्पदम् इगिति, तेनाऽऽश्रीयमाणसमुदायो ग्रामणीति, तद्घटकेन ह्रस्वविधायकघटकेन सप्तम्यन्तेन वा पञ्च- म्यन्तेन वाऽऽश्रीयते इति तस्यान्तरङ्गत्वं न स्यात् । न च अपरनिमित्तकत्वेनान्तरङ्गत्वं स्यादिति वाच्यम् ; प्रसिद्धफलाभावादपरनिमित्तकत्वं नान्तरङ्गत्वमिति वदतां मते तदभावादिति चेद्—