परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 208, कुल 373 में से
संदर्भ में पढ़ेंकेचित्तु — अत्र जनीजृषिति घटादित्वात्न दोष इति प्राहुः । परे तु — पर्जन्यवत्पूर्व नित्यत्वात् प्रतिपदोक्तत्वाच्च ह्रस्वे 'रजयती'त्यत्र 'अत' . इति वृद्धिर्न । मित्त्वफलन्तु 'चिण्णमुलोरि'ति बोध्यमित्याहुः । 'जगदम्बे'त्यत्र 'सन्निपात'परिभाषया न टाबित्येतदपि न जातासिद्धत्वस्य फलम् । 'अम्बाऽत्रे'त्यत्र सवर्णदीर्घस्य पदद्वयापेक्षत्वेनासिद्धत्वान्न 'अम्बार्थे'ति पुनह्र्रस्व इति तु न फलम् । लक्ष्ये लक्षण'न्यायेनैवात्र तद्व्यावृत्तेः सुवचत्वात् । न च तन्मात्र- स्थानिकविकाराभावेन 'लक्ष्ये लक्षण'न्यायाप्रवृत्तिः । अत एव 'काण्ड' इत्यत्र एतन्न्याया- प्रवृत्त्या प्रकारान्तरेणैवात्र ह्रस्ववारणं भाष्योक्तं सङ्गच्छत इति वाच्यम् ; तादृश- भाष्यप्रामाण्येन विभक्तिस्थानिकैकादेशस्थले मात्रपदेन व्यावृत्तावप्यत्र तद्व्यावृत्तौ मानाभावात् । ईदृशन्यायस्वरूपवर्णनस्यान्यत्र स्पष्टत्वात् । केचित्तु — भूधातोः क्विबन्तादौकारे सुपि 'भुवादि'त्यत्रोवङि कृते बहिरङ्गत्वेन उवङोऽसिद्धत्वादूट् न । न च ऊट्यपि 'भू + ऊ + औ' इति स्थिते 'लक्ष्ये लक्षण'न्यायेन उवङोऽप्राप्त्या 'न भूसुधियोरि'ति निषेधेनाऽङ्गयणोऽभावेऽपि 'इको यणची'ति यणीष्टसिद्धिरिति वाच्यम् ; अन्तरङ्गत्वदपवादत्वाद्वा यणं बाधित्वा सवर्णदीर्घे ततो यणि 'भ्वावि'त्यस्यापत्तेः । न च 'भू + ऊ + औ' इति स्थिते वर्णपरिभाषया सवर्णदीर्घं बाधित्वा 'ओः सुपी'ति यणि 'भुवावि'त्यस्य सिद्धिः, सुधीसाहचर्येण हल्पूर्वं एव निषेधप्रवृत्तिस्वीकारेणात्र तद्विषयाभावादिति वाच्यम् ; 'भुवावि'त्यत्र पूर्वोकारे 'इको यणची'ति यण् प्राप्नोति, तं बाधित्वा अपवादत्वादीर्घः, तं बाधित्वा वार्णपरिभाषया ऊठो यण् प्राप्नोति, तमन्तरङ्गत्वाद् बाधित्वा 'इको यणि'ति यण् न जातासिद्धत्वस्य फलमिति । अत्र केचित् — 'औजिढत्' इति जातासिद्धत्वस्य फलम् । तत्रान्तरङ्गे ढूलोपे कर्तव्ये षडन्तसमुदायनिमित्तकद्वित्वस्य बहिरङ्गतयाऽसिद्धत्वान्न दीर्घा- पत्तिरिति प्राहुः । तन्न ; जातासिद्धत्वाङ्गीकारेऽपि अन्तरङ्गे दीर्घे कर्तव्ये 'नाजानन्तर्य' इति निषेधात् 'चङि' इति द्वित्वस्य असिद्धत्वाभावेन दीर्घप्राप्तेर्निर्बाधत्वात् । 'नाजानन्तर्य' इत्यस्य अनित्यत्वे न दृढतरं मानम् । किञ्च अभ्यासकार्ये द्वित्वस्यासिद्धत्वं नेत्यवश्यं कल्पनीयैनैव वचनेन द्वित्वस्या- सिद्धत्वाभावः । अत एव 'ह्रस्वः, हलादिः शेषः' इति सूत्रद्वयं चरितार्थम्; अन्यथा ह्रस्वे हलादिः शेषे च कर्तव्ये प्रत्ययनिमित्तकद्वित्वस्यासिद्धतया अभ्यासाभावेन सूत्रवैयर्थ्यस्य स्फुटत्वात् । ननु सूत्रारम्भसामर्थ्यादभ्यासशब्दमुच्चार्य कार्ये कर्तव्ये द्वित्वासिद्धत्वाभावज्ञापनेन सूत्र- द्वयसार्थक्यसम्भवेन प्रकृते 'ढूलोपे' इति दीर्घस्याभ्यासशब्दमुच्चार्य विधानाभावेन तत्र कर्तव्ये जातासिद्धत्वसत्त्वेन दीर्घप्राप्तिरिति चेन्न । यङ्लुगन्ते 'आरति' इत्यादौ 'ढूलोपे' इति दीर्घना- पत्त्या तादृश्यकल्पनायाः कर्तुमशक्यत्वात् । तस्मात् तत्र दीर्घाभावस्येष्टत्वे रसाहचर्येण अभ्यासान- वयवस्यैव ग्रहणमित्युपायान्तरमनुसर्तव्यम् । 'आरती' इत्यादौ अभ्यास एव, न तु अभ्यासावयव इति न दोषः । अन्तरङ्गत्वादिति । न च 'वार्ण'परिभाषया 'ओः सुपि' इति यणेव स्यादिति वाच्यम् ; समानस्थानिकत्वाभावात्, समाननिमित्तकत्वाभावाच्च तदप्राप्तेः ।