भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 242, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 242

२१२ परिभाषेन्दुशेखरः [ २ प्रकरणं- न च परादिवद्भावेन एकादेशविशिष्टस्य उत्तरपदत्वमेवास्त्विति तत्सम्भव इति वाच्यम् ; उत्तरपदाद्यच्स्थानिकत्वाद् वृद्धेस्तदभावेनाप्राप्ते- स्ताद्रूप्यानतिदेशात् । अन्यथा 'खट्वाभिर्'त्यादावपि पूर्वान्तवत्त्वेनादन्तत्वे भिस ऐसापत्तिरिति भाष्ये स्पष्टम् । अत एव 'पूर्वेषुकामशम' इत्यादौ अन्तरङ्गत्वाद् गुणे वृद्धिर्न स्यादित्याशङ्कितम् । तदेकदेशमात्रस्य विकारा- भावाच्च । ताद्रूप्यानतिदेशादिति । ननु 'क्षीरपेणे'त्येत्र एकाजुत्तरपदत्वस्यातिदेशाय स्ववृत्तित्व- स्वस्थानिकादेशावृत्तित्वोभयसम्बन्धेन अन्तादिवर्णविशिष्टस्यैव अल्मात्रवृत्तिधर्मस्य ताद्रूप्यपदेन ग्राह्यतया सोमेन्द्रेऽतिदेष्टव्यस्य अच्त्वरूपस्य अल्मात्रवृत्तिधर्मस्य स्व- स्थानिकैकाररूपादेशवृत्तित्वेन तत्त्वाभावान्निषेधाप्रवृत्तिः । किञ्च एन्द्रघटक एकारे अच्त्वस्य सिद्धतया उत्तरपदत्वस्यातिदेष्टव्यस्य च निषेधाविषयत्वेन उक्तसमाधेरसम्भ- वश्चेति चेन्न । 'अन्तादिवच्चे'त्यनेन शास्त्रीयधर्मस्यैवातिदेशेन उत्तरपदत्वमात्रधर्मस्या- शास्त्रीयत्वेन अतिदेशासम्भवात् । ताद्रूप्यपरिष्कारे निरुक्तसम्बन्धद्वयेन स्वविशिष्टा- ल्मात्रवृत्तिधर्मस्य विशेषणदलप्रविष्टयावत्पदार्थसङ्कुचितस्यैव ग्रहणादच्त्वस्य उक्त- ताद्रूप्याभावेऽपि उत्तरपदादित्वरूपविशेषणदलप्रविष्टधर्मेण सङ्कुचितस्य तादृशस्य उत्तरपदाद्यच्त्वस्य स्वस्थानिकादेशावृत्तित्वेन स्ववृत्तित्वेन चोक्तरूपतया न वा ताद्रूप्या- दिति निषेधविषयत्वस्य सुवचत्वात् । उत्तरपदाद्यच्त्वरूपशास्त्रीयधर्मघटितत्वेन शास्त्री- यत्वाक्षतेः । अत एव 'प्रपठ्ये'त्यत्र वल्त्वरूपशास्त्रीयधर्मघटितत्वेन वलादित्वस्य शास्त्रीयतया स्थानिवत्त्वेन अतिदेशमाशङ्क्य विशेषणतया अलाश्रयणादनल्विधाविति निषेध इत्युक्तमाकरे । अत एवेति । ताद्रूप्यस्यानतिदेशादेवेत्यर्थः । पूर्वेषुकामशम इति । पूर्वा चासौ इषुकामशमी च तस्यां भवेत्यर्थेऽणि प्राचां ग्रामनगराणामिति वृद्धिर्बहिरङ्गतयाऽन्त- रङ्गतवादाद्गुणे उत्तरपदाद्यच्त्वाभावाद् वृद्धिर्न स्यादिति भावः । ननु ऐन्द्रशब्दस्य एक- देशविकृतन्यायेनोत्तरपदत्वं तेनैव सोमिति मान्ते इत्येकारान्ते च पूर्वपदत्वं चास्तु, तावता च न पूर्वोक्तदोषावकाश इति शङ्कां मनसि निधायाऽऽह — तदेकदेशेति । अस्य न्यायस्य लौकिकत्वेन लोके तत्रैव प्रवृत्तिदर्शनेनात्र तद्विषयाभावात् । ग्रन्थरहस्यविदस्तु—किञ्च 'वृद्धिप्रप्यत्र न प्राप्नोति, अन्तादिवत्त्वोभयाभावेऽपि'- त्यन्तमेकं वाक्यम् । अत्रापिश्चार्थे । यथा उभयत आश्रयणेऽन्तादिवद्भावनिषेधाद् वृद्धिनिषेधो न प्राप्नोति, एवम् अन्तवत्त्वादिवत्त्वोभयस्यातिदेशाभावे वृद्धिर्पि न प्राप्नोतीत्यस्यार्थः । वृद्धिप्राप्तिं प्रकारद्वयेनोद्भावयति—पूर्वान्तवत्त्वेनेति । पूर्वान्त- वत्त्वेनैकादेशविशिष्टे सोमे शब्दे पूर्वपदत्वे इन्द्रशब्दस्यैकदेशविकृतन्यायेन उत्तर- पदत्वे उभयत आश्रयणेति निषेधाभावेन वृद्धिं प्राप्नोतीति सम्बन्धः । द्वितीयं वृद्धिप्राप्तिप्रकारमाह—तदाश्रयणेति । तदाश्रयणेन = एकदेशविकृतन्यायाश्रयणेन सोमिति मान्ते पूर्वपदत्वे ऐन्द्रशब्दे उत्तरपदत्वे उभयत आश्रयणे नान्तादिवदित्यस्याभावेन