परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 260, कुल 373 में से
संदर्भ में पढ़ेंभाष्यकृता च न प्रत्याख्यातम् । प्रत्यङ्गमन्तरङ्गम् । अस्यां परिभाषायां सत्यान्तु तद्वैयर्थ्यं स्पष्टमेव । अत एव 'च्छ्वोर्'िति सूत्रे "अवश्यमत्र तुगभावार्थो यत्नः कार्योऽन्त- रङ्गत्वार्द्धि तुक् प्राप्नोती"ति भाष्ये उक्तम् । एतत्सत्त्वे तु तुकोऽप्राप्त्या यत्नावश्यकत्वकथनमसङ्गतमिति स्पष्टमेव । न चैतदनित्यत्वज्ञापनार्थमेव तदिति तदाशयः ; अवश्यमत्रेत्यक्षरस्वारस्यभङ्गापत्तेः । किञ्चानयैव 'प्रत्ययोत्तरपदयोश्च, अदो जग्धिल्यैप्ति किति'त्यनयो- श्चारितार्थ्येन तज्ज्ञापकवशालुग्ल्यपोरन्तरङ्गबाधकता भाष्योक्ता भज्येत । किञ्चैषा भाष्ये न दृश्यते । तदुक्तम् 'असिद्धवत्'सूत्रे कैयटेन— "निमित्तापाये नैमित्तिकस्याप्यपाय इति परिभाषाया भाष्यकृता अना- श्रयणादि"ति । न प्रत्याख्यातमिति । 'अकृतव्यूह'परिभाषारूपत्वादन्तरङ्गानिपीति न्यायादिवदेतन्न प्रत्याख्यातमित्यरुचेराह—अत एव च्छ्वोरिति । वस्तुतस्तु—'प्रतीच' इत्यादौ यणादि- वारणाय वार्तिककृताऽऽरब्धस्यैतद्वचनस्य चाविति दीर्घारम्भसामर्थ्येन यणाद्यभावं प्रति- पाद्य भगवता एतद्वचनं प्रत्याख्यातमेव । तदुक्तं भाष्ये—"इहान्ये आचार्याश्चौ प्रत्यङ्गस्य प्रतिषेधमाहुस्तदिहापि साध्यम् । नैष दोषः । एतदेव ज्ञापयत्याचार्यो न चौ प्रत्यङ्गं भवतीति । यदयं चौ दीर्घत्वं शास्ती"ति । न च प्रकृतपरिभाषया सिद्धे ज्ञापकाश्रयणं निष्फलमिति वाच्यम् ; तज्ज्ञापकेन आंशिकैतत्परिभाषार्थज्ञापनस्यैव सत्त्वेन तत्सिद्धि- रित्याशयात् । अत एव ज्ञापयतीत्युक्तम् ; अन्यथा दीर्घविधानसामर्थ्यादित्येव वदे- दिति बोध्यम् । अक्षरस्वारस्यभङ्गापत्तेरिति । अत्राक्षरस्वारस्यरसमास्वादयद्भिग्र्रन्थकृद्भिः वार्ण'- परिभाषाया अनित्यत्वनिरूपणावसरे कथमक्षरस्वारस्यभङ्गोऽङ्गीकृत इति तु त एव प्रष्टव्याः । किञ्च प्रकृतिप्रत्यापत्तिवचनादिना अस्या अनित्यत्वेन तुको निवृत्तये यत्नावश्य- कत्वकथनं युक्तम् । किञ्च वाञ्छतेः क्विपि शादेशप्रवृत्तये सतुक्कनिर्देशस्याऽवश्य- कत्वमित्यरुचेराह—किञ्चानयेति । तत्तज्ज्ञापकैरंशत एतत्परिभाषाया एव ज्ञापनेन न भाष्योक्तज्ञापकताभङ्ग इत्यरुचेराह—किं चैवेति । अन्तरङ्गानिपीत्यादेरेतद्धनरूपतया तद्रूपेणैव एतद्दर्शनस्यापि सत्त्वेन न दृश्यत इति कथनं साहसमात्रमित्यरुचेराह—तदुक्तमिति । निमित्तापाय इति परिभाषा भाष्यानुक्ता कथं कैयटेनाऽऽश्रितेति स एव प्रष्टव्यः । दीक्षितोका तु सान्तरङ्गा- नपीत्यादिशब्दैः भाष्यकृता आश्रितैवेति बोध्यम् । वस्तुतस्तु—निमित्तापाय इत्यादिशब्दैरेषा भाष्येनाऽऽश्रितेत्ति ऽर्थेन कैयटस्यापि नोक्तविरोध इति तत्त्वम् ।