भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 297, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 297

[७३-७४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६७ परिभाषाया अनित्यत्वात् तन्मूलेषा इत्यन्ये ॥ ७३ ॥ ननु 'तस्यापत्यम्' इत्येकवचन-नपुंसकाभ्यां निर्देशाद् 'गार्ग्यो गार्ग्यौ' इत्याद्ययुक्तमत आह— सूत्रे लिङ्गवचनमतन्त्रम् ॥ ७४ ॥ —: ✿ :— 'अर्धं नपुंसकम्'ति नपुंसकग्रहणमस्या ज्ञापकम् । नित्यनपुंसकत्वार्थं तु न तदित्यन्यत्र निरूपितम् । विभक्तिकारस्य णत्वं नेति वाच्यम् ; 'अट्कुप्वाङि'ति णत्वेनेष्टसिद्धेः । 'दीर्घाह्नो'- त्यत्र 'अहन्नि'ति रुत्वस्यापि पदत्वद्वारा विभक्तिनिमित्तकत्वेन विभक्तिसम्बन्धिकार्यत्वा- दनया अहन्शब्दत्वातिदेशासम्भवान्न रुत्वमिति दिक् ॥ ७३ ॥ अयुक्तमिति । न च द्वित्व-बहुत्वयोः पुंस्त्व-स्त्रीत्वयोश्चाविवक्षायामेकवचन- नपुंसकलिङ्गप्रयुक्तकार्यप्रवृत्तिः, अत एव स्तोकादिशब्देभ्यो नपुंसकैकवचनामादि- सिद्धिरिति न प्रकृतप्रयोगासङ्गतिरिति वाच्यम् ; समवायान्पक्षमत्स्यमृगानि- त्यादिप्रयोगोपलक्षणत्वेनैतस्य 'मृगं हन्ति मार्गिक' इत्यादिप्रयोगानुपपत्तिरित्या- शयेन अदोषात् । अतन्त्रमिति । असति यत्ने अविवक्षितमित्यर्थः । अत एव 'पदात्स्वैरी'त्यादौ नपुंसकनिर्देशेन सिद्धौ बाह्या इति स्त्रीलिङ्गनिर्देशो विवक्षार्थः, तेन पुंन्नपुंसकयोः क्यबभावसिद्धिः । न च तस्याविवक्षितत्वे 'मृगानि'त्यादौ नत्वाद्यनापत्तिः, 'तस्मा- च्छस' इत्यस्य पुंस्त्वे विवक्षिते इत्यर्थादिति वाच्यम् ; पक्षिमत्स्येत्यादिशब्दैः पुंस्त्वादेर्विवक्षितत्वेऽपि तद्धितवाच्यतावच्छेदककुक्षौ अविवक्षितमित्यर्थेन अदोषा- दित्यन्यत्र विस्तरः । नित्यनपुंसकत्वार्थं तु नेति । पूर्वापराधरोत्तरार्धमित्येकयोगेन सिद्धे पृथग्योगकरणे- नैव तत्सिद्ध्या नपुंसकग्रहणवैय्यर्थ्यस्य सूपपादत्वादिति भावः । अट्कुप्वाङिति णत्वेनेति । निमित्तानधिकरण-निमित्तिमत्पदाघटितत्वरूपाखण्डपदत्व- सत्त्वादिति भावः । विभक्तौ लिङ्गविशिष्टाग्रहणात् प्रातिपदिकान्तत्वस्याप्यप्राप्तेः । तत्रापि पूर्व- पदेना आक्षिप्तसमासरूपप्रातिपदिकप्रकृतिकविभक्तेरेव ग्रहणादिति भावः । 'माषं वपतीति या माषवापी' कर्मण्यण्, तदन्तात् ङीपि आम्‌विभक्तौ 'माषवापीनाम्' इत्यत्र शेखरकृन्मते विकल्पेन णत्वं भविष्यति, टीकाकृन्मते तु नित्यं णत्वमिति फलभेदश्चिन्तनीयः । न रुत्वमिति । अत्र शेखरकृन्मतेऽपि 'अह्न' इति वक्तव्ये 'अहन्' इति नान्तानु- करणसामर्थ्यात् नान्ताहन्शब्दस्यैव रुत्वविधानान्न दोषः ॥ ७३ ॥ तद्धितवाच्यतावच्छेदककुक्षौ अविवक्षितमिति । बुद्धिस्थत्ववदुपलक्षणम्, न तु विशेषणमिति भावः । तथा च आश्रयत्वसम्बन्धावच्छिन्न-बोधविषयतातावच्छेदकप्रकारतानिरू-