परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 318, कुल 373 में से
संदर्भ में पढ़ें२८८ परिभाषेन्दुशेखरः [ ३ प्रकरणे- अत एवात्र सन्निपातशब्देन न पूर्वपरयोः सम्बन्ध एव, किन्तु विशेष्य- विशेषणसन्निपातोऽपि गृह्यते । अत एव 'ग्रामणिकुलमि'त्यादौ नपुंसकह्रस्व- त्वेऽपि 'पिति कृती'ति तुग् न ; प्रातिपदिकाजन्तत्वसन्निपातेन जातस्य ह्रस्वस्य तद्विघातकत्वात् । तुक्यजन्तत्वविघातः स्पष्ट एव । त्वेन तदप्रवृत्त्या सूत्रसार्थक्यं स्पष्टमेव । न च 'न षडि'ति निषेधः शङ्क्यः ; स्वस्रादिगणे तिसृ-चतसृपाठस्यानार्षत्वेन तन्निषेधायोगात् । अत एव 'कृन्मेजन्तः' इति सूत्रे भाष्ये 'तिस्रश्चतस्र' इत्यत्र ङीपमाशङ्क्य "आचार्यप्रवृत्तिर्ज्ञापयति न तिसृ- चतसृभावे ङीब् भवतीति । "यदयं न तिसृचतस्रिति नामि दीर्घत्वप्रतिषेधं शास्ती"- त्युक्तमिति । तन्न युक्तम् ; 'तिस्रोऽतिक्रान्तानामति तिस्रिणामि'त्यत्र ङीपि 'लिङ्गविशिष्ट'- परिभाषया ङीबन्ते उपसर्जनत्वात् 'गोस्त्रियोरिति ह्रस्वे 'नामी'ति दीर्घे च प्राप्ते न्यूनसमुदायापेक्षत्वेन अन्तरङ्गत्वात्पूर्वं ह्रस्वे कृते प्राप्तदीर्घवारणाय उक्तसूत्रस्य आवश्यकत्वेन ज्ञापकत्वासम्भवात् । परे तु-'अतितिस्री + नामि'ति स्थिते 'नामी'त्यस्यापि प्रतिपदोक्तत्वरूपा- न्तरङ्गत्वेन नित्यत्वेन चोभयोः समत्वात् परत्वाद्दीर्घोत्तरं ह्रस्वे 'लक्ष्ये लक्षण'न्यायेन पुनर्दीर्घाप्राप्त्या उक्तसूत्रस्य वैयर्थ्येन ज्ञापकत्वं सुस्थमेवेति प्राहुः । यत्तु-'वाचि ह्रस्वश्चे'ति न्यासेनैव 'श्रियाम्, श्रीणामि'त्यादीष्टरूपसिद्धौ 'वामि, ङिति ह्रस्वश्चे'ति योगद्वयकरणमस्यां ज्ञापकम् । ज्ञापिते तु 'श्रीणामि'त्यत्र अजादित्वमुपजीव्य जायमानेन नदीत्वेन नुट्द्वारा अजादित्वविघातेनानया नुड्- प्राप्त्या 'वामी'त्यस्याऽऽवश्यकत्वम् । तत्सत्त्वे तु नुड्विशिष्टे आम्त्वेन सन्निपात- विघाताभावः स्पष्ट एव । तव तु अजादित्वस्य वर्णत्वव्याप्यधर्मघटितत्वेन 'यदागम'- परिभाषायाऽऽनयनाभावेन तद्विरोधः स्पष्ट एव । न च 'मतिश्चोमा चे'ति द्वन्द्वेऽच्- परत्वेन मतिशब्दस्य नदीत्वेन घित्वाभावात् पूर्वनिपातानापत्त्या ईदृशन्यासस्य वक्तु- मशक्यत्वमिति वाच्यम् ; 'मतिश्च चित्रश्चे'ति द्वन्द्वे सिद्धान्ते ङित्परत्वेऽपि नदीत्वा- भावार्थं प्रत्ययाक्षेपस्याऽऽवश्यकत्वेन उक्तदोषासम्भवादिति प्राहुः । तन्न ; 'वापि ह्रस्वश्चे'ति न्यासेन सिद्धेः सिद्धान्तेऽप्युक्तयोगविभागवैयर्थ्येन तस्योक्तांशज्ञापकत्वा- सम्भवात्, 'ङिति ह्रस्वश्चे'त्यत्र नित्यस्त्रीत्वसम्बन्धो 'वामी'त्यत्र च 'अतिश्रियामति- श्रीणाम्, ब्राह्मणानामि'ति सिद्धयर्थं तदसम्बन्ध इति भाष्यसम्मतसिद्धान्तस्य असिद्धया तथाविधैकयोगस्य कर्तुमशक्यत्वाच्च । स्पष्टं चेदं तत्रैव सूत्रे शब्देन्दुशेखरटिप्पणे । अत एवेति । न्यायमूलत्वादैवेत्यर्थः । विशेष्यविशेषणसन्निपात इति । अभेद इत्यर्थः । अत एवेति । अभेदस्यापि ग्रहणादेवेत्यर्थः । तुक्यजन्तत्वविघात इति । इदं अभेद इत्यर्थ इति । तस्याप्युपजीव्यत्वात्, परिभाषाया सन्निपातपदेन उपजीव्यमात्रस्य ग्रहणात् । ज्ञापकसिद्धत्वाङ्गीकारे तु तत्साजात्यात् पौर्वापर्यलक्षणसन्निपात एव गृह्येतेति भावः ।