परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 348, कुल 373 में से
संदर्भ में पढ़ें३१८ परिभाषेन्दुशेखरः [ ३ प्रकरणे— कृतोक्तम् । उक्तसूत्रयोर्व्याख्यानात्प्रत्यययोरेव ग्रहणमित्याहुः ॥ १११ ॥ ननु 'विपराभ्यां जेरि'त्यात्मनेपदं परा सेना जयतीत्यर्थके 'परा- जयति सेने'त्यत्र प्राप्नोतीत्यत आह— सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम् ॥ ११२ ॥ —: ❖ :— तेन विशब्दसाहचर्यात् उपसर्गस्यैव पराशब्दस्य ग्रहणमिति तत्रैव भाष्ये स्पष्टम् । सहचरणं सदृशयोरेवेति सहचरितशब्देन सादृश्यवानुच्यते । 'राम- लक्ष्मणावि'त्यादावपि सादृश्यमेव नियामकम्; सदृशयोरेव सहविवक्षा, तयोरेव सहप्रयोग इत्युत्सर्गाच्च । आहुरिति । केचित्तु—'वसुस्रंसिवि'त्यत्र परसाहचर्याद् वसुधातोर्ग्रहणवारणायैषा अवश्यमाश्रयणीया । अत एव 'वनो र च, वसोः सम्प्रसारणमि'त्यादि-वनुवसोः प्रत्ययस्यैव ग्रहणम् । दिव उदि'त्यादौ तकारविशिष्टस्य उशब्दस्य तत्काले शक्ति- रित्यभिप्रायेण तकारस्येत्संज्ञायां तित्स्वरप्राप्तौ "तितिप्रत्यये"ति वार्तिकोपन्यसनम् । सिद्धान्ते तपरसूत्रेण तकाररहिते एव शक्तिबोधने तु तस्यानवयवत्वात् 'तित्स्वर- रितमि'त्यस्याप्राप्तिरिति न तद्विरोधः । किञ्च "तिती"ति वार्तिकं "लुग्विकरण- परिभाषया पिबतेर्ग्रहणं कर्तव्यम्"ति वार्तिकमिव प्रकृतपरिभाषाया अव्युत्पा- नुवादः । तत्प्रत्याख्यानपरं भाष्यं च तत्सूत्रेऽस्याः प्रयोजनं नास्तीत्यभिप्रायकमिति न कश्चिद्दोष इत्याहुः ॥ १११ ॥ विशब्दसाहचर्यादिति । ननु विशब्दस्य पक्षिवाचकस्यापि सत्त्वेन कथमुपसर्ग- ग्रहणमिति चेन्न । पराशब्दसाहचर्याद्विशब्दोऽपक्षिवाचि गृह्यते, स चोपसर्ग एव, तथाभूतविशब्दसाहचर्याच्च पराशब्द उपसर्गो गृह्यते इति परस्परसाहचर्याश्रयणेन अदोषात् । एवं 'रामलक्ष्मणावि'त्यत्रापि रामसाहचर्याद् दुर्योधनापत्यभिन्नो लक्ष्मणो गृह्यते, स च दशरथापत्य एव प्रसिद्धः, तत्साहचर्याच्च जामदग्न्य-बलरामभिन्नो रामो गृह्यते इति बोध्यम् । साहचर्यस्य लोकेऽभिधानियामकत्वमित्येतन्मूलकेयम् । तदुक्तमभियुक्तैः— “संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥” —इति । अत्रापि साहचर्यं सादृश्यमेवेत्याह—सादृश्यमेव नियामकमिति ।