परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 41, कुल 373 में से
संदर्भ में पढ़ेंविशेषः । एतदेवाभिप्रेत्य अधिकारो नाम त्रिप्रकारः कश्चिदेकदेशस्थः सर्वं शास्त्रमभिज्वलयति, यथा-प्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयति' इति 'षष्ठी स्थाने' इति सूत्रे भाष्य उक्तम् । अधिकारशब्देन पारार्थ्यात्परि- भाषाऽप्युच्यते । कश्चित्परिभाषारूप इति कैयटः । दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत्स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्- तात्पर्यम् । एतच्च पक्षद्वयसाधारणं भाष्यम्, पक्षद्वयेऽपि प्रदेशैकवाक्यताया इतः प्रतीतेः । तत्रैतावान्विशेषः—यथोद्देशे परिभाषादेशे सर्वविधिसूत्रबुद्धौ आत्मभेदं परिकल्प्य तैरेकवाक्यता परिभाषाणाम् । तदुक्तम् 'क्ङिति चे'ति सूत्रे कैयटे- 'यथोद्देशे प्रधानान्यात्मसंस्काराय सन्निधीयमानानि गुणभेदं प्रयुञ्जत' इति । 'सावेधातुके'त्यादिनिषेध्यशास्त्रीय-सार्वधातुकेत्यादिपदसम्बन्धि-क्ङि-द्भिन्नसार्वधातुका- द्यर्थनिर्णायकत्वरूपा । कार्यकालपक्षे त्विति । तुरेवार्थे, कार्यकाले एव त्रिपाद्यामुप- स्थितिर्नान्यपक्षे इत्यर्थः । त्रिपाद्यामपीति । अपिना सपादीसङ्ग्रहः । वस्तुतः इदं शास्त्रत्वा- वच्छिन्नोद्देश्यताकपरिभाषाविषयकम् । शास्त्रत्वसम्पादकपरिभाषाणान्तु पक्षद्वयेऽपि- त्रिपाद्यामुपस्थितिः, तत्परिभाषाप्रवृत्तेः प्राक् त्रैपादिकस्य शास्त्रत्वाभावेन 'पूर्वत्रा- सिद्धमि'त्यनेन असिद्धत्वप्रतिपादनासम्भवात् । त्रिप्रकार इति । मूलोक्त एकः । द्वितीयो यथा—रज्ज्वायसा वा बद्धं काष्ठमनुकृष्यते, तद्वदनुकृष्यते चकारेणेति । चकारमन्तरा- ऽपि 'योगे योगे' उपतिष्ठत इति तृतीयो'ऽङ्गस्ये'ति सूत्ररूपः । अधिकारत्वञ्च-स्वदेशे लक्ष्यसंस्कारोपयोगिविधिशास्त्रीयवाक्यार्थबोधोपकारकवाक्यार्थानुभावकत्वे सति विधिशास्त्रीयलक्ष्यसंस्कारोपयोगिवाक्यार्थबोधप्रयोजकत्वम् । संज्ञादिवारणाय सत्य- न्तम्, शेष इत्यत्राव्याप्तिवारणाय वाक्यार्थे विधिशास्त्रीयवाक्यार्थबोधोपकारकेति विशेषणं सत्यन्ते । एवम् = दीपवत् । एतत् = परिभाषाशास्त्रम् । स्वबुद्धीति । स्वविधेय- बुद्धीत्यर्थः । यथोद्देशपक्षाभिप्रायकमिदं भाष्यमिति कैयटमतं खण्डयति—एतच्चेति । यथोद्देशपक्षाभिप्रायकत्वे तु—परिभाषाविषये कार्यकाल पक्ष एव न स्यात्, परिभाषा- मात्रस्याधिकारपदेन ग्रहणात् । तदाऽऽह = पक्षद्वयेऽपीति । इतः = भाष्यात् । आत्मभेदम् = परिभाषाविधेयभेदम् । परिकल्प्य = बोद्धृभिः परिभाषाणां तैर्विधिशास्त्रैः सहैक- वाक्यता क्रियत इत्यर्थः, तैः विधिशास्त्रैरिति कर्तृपदं वा । अत्र क्रियत इत्यध्याहारान्न वस्तुत इति । इदं प्राचां मतेन । नवीनमते तु शास्त्रत्वावच्छिन्नोद्देश्यताकपरिभाषाणाम् 'अन्तरङ्गे' इत्यादीनां त्रिपाद्यामप्रवृत्तिरेव । तुरप्यर्थे इति । अपिना परिभाषाशास्त्रस्यापि ग्रहणम् । तस्यापि लक्ष्यसंस्कारोपयोगिप्रदेशवाक्येन सहैव भवतीत्यर्थः । लक्ष्यसंस्कारोपयोगी- त्यस्य च लक्ष्यधर्मिकसाधुत्वप्रकारकबोधोपयोगीत्यर्थः । एतेन—पदार्थोपस्थितियोग्यताज्ञानादि- सामग्रीसत्त्वे शाब्दबोधस्य दुर्वारतया इदमसङ्गतमित्यपास्तम् ।