भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 48, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 48

१८ परिभाषेन्दुशेखरः [ १ प्रकरणे- न च कार्यकालपक्षे 'ङमो ह्रस्वाद्वि'त्यादौ 'तस्मादित्युत्तरस्य', 'तस्मि- न्निति निर्दिष्टे पूर्वस्ये'ति परिभाषाद्वयोपस्थितौ परत्वाद् 'उभयनिर्देशे पञ्चमी- निर्देशो बलीयानि'ति तस्मिन्नितिसूत्रस्थभाष्यासङ्गतिः, उभयोरेकदेशस्थत्वेन परत्वादित्यस्यासङ्गत्त्यापत्ते, स्पष्टं चेदम् 'इको गुणे'त्यत्र कैयट इति वाच्यम्; विप्रतिषेधसूत्रेऽष्टाध्यायीपाठकृतपरत्वस्याश्रयेणादोषात् । नहि कार्यकालपक्ष इत्येतावता तदपैति । पक्षद्वयेऽपि प्रदेशेषु स्वबुद्धिजननेनाविशेषात् । नहि तत्पक्षेऽप्यचेतनस्य शास्त्रस्य स्वदेशं विहाय तद्देशगमनं सम्भवति । नाप्य- नागेशसम्मतः । अत एव नागेशेन केचिदित्युक्तम् । अत एव चाग्रिमः 'न चे'ति शङ्का- ग्रन्थोऽपि सङ्गच्छते, अन्यथा स्वदेशत्यागाभावस्य तत्तद्देशस्थत्वं वारयतीत्यादिना उक्तत्वेनैतद्ग्रन्थस्य निर्दलत्वापत्तिरित्याहुः । अन्ये तु- नागेशमते सर्वपरिभाषाविषये कार्यकालपक्ष एव ; 'सप्तमीनिर्देशादि क्वे'त्यत्र अतद्गुणसंविज्ञानबहुव्रीहिणा विप्रतिषेधे, 'असिद्धं बहिरङ्गम, सन्निपात०, अनुदात्तं पदमेके'ति चतसृणां परिभाषाणां सङ्ग्रहः । 'कश्चिदेकदेशस्थ' इति भाष्यन्तु उक्तपरिभाषाचतुष्टयविषयमेव । अत एव कार्यकालपक्षे 'ङमो ह्रस्वादि'ति शङ्काग्रन्थः सङ्गच्छत इति वदन्ति । न चेति । यद्यपि 'तद्देशस्थत्वं वारयती'त्युक्त्या नैतच्छङ्कोत्थितिरस्तथापि प्राचीन- मतानुसारणैतद्ग्रन्थसत्त्वान्न दोषः । अत एवात्र “स्पष्टं चेदमिको गुण इत्यत्र कैयट” इत्युक्तम् । विधिवाक्येनैकवाक्यत्वाद्वा, स्वदेशं विहाय पथिकवद्देशान्तरगमनाद्वा, प्रदेशेऽस्मदादिबुद्धिजनननाद्वा स्वदेशत्याग इत्याक्षेपाणां क्रमेण निरासमाह-नहीति । प्रदेशेषु = विधिवाक्यविषये । स्वबुद्धिजननेन = स्वविधेयार्थबोधनेन । अविशेषात् = विधि- वाक्यैकवाक्यतायाः पक्षद्वयेऽपि सत्त्वादित्यर्थः । यद्वा-प्रदेशेषु = परिभाषादेशेषु । स्वबुद्धिजननेन = सफलवाक्यार्थबोधेन, अविशेषात् = पक्षद्वयेऽपि परिभाषाणां पाठदेशस्यैव मुख्यदेशत्वेन तदनुरोधेन विप्रतिषेधशास्त्रप्रवृत्तेर्वक्तव्यतयाऽत्र विशेषाभावादित्यर्थः । संज्ञाशास्त्राणां कार्यकालपक्षे तु विधिदेश एव सफलवाक्यार्थबोधसत्त्वेन तद्देशस्यैव मुख्यदेशतया 'अयादिभ्य' इति भाष्यसङ्गतिरिति तत्त्वम् । द्वितीयं निरस्यति-नहीति । तृतीयं निरस्यति-नापीति । न च 'अयादिभ्य' इति भाष्यासङ्गतिः ; तत्रत्यसंज्ञापदस्य संज्ञाकार्यप्रकृतिभावोपलक्षकत्वात्, परत्वादित्यस्य अपवादत्वादित्यर्थकत्वाद्वा । मूले-स्पष्टं चेदं० कैयट इति । तत्र क्रोष्ट्रीयसम्मतविप्रतिषेधखण्डनावसरे 'नैष युक्तो विप्रतिषेधः' इति भाष्यप्रतीकमुपादाय 'यथोद्देशे परिभाषयोः पौर्वापर्यम्, न तु कार्यकालतायाम्' इति हि तेनोक्तम् । केचिदित्युक्तमिति । अन्यथा 'परे तु' इत्यादिना वदेदिति भावः ।