परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 6, कुल 373 में से
संदर्भ में पढ़ेंतत्त्वप्रकाशिकाकर्तुः हृद्गतम् अतिक्रान्तोऽर्धशतकादधिकः कालो यदा प्रभृति अत्र व्याकरणमातृगृहभूतायां काश्यां परमगुरुभिः श्रीबालसरस्वतीपादैः परिचालितसम्प्रदायोपबृंहिता व्याकरणा- ध्ययनाध्यापन रिपाटिः प्रचलति। तत्तच्छिष्यसन्ततिभिः निःशेषं पल्लविता पुष्पिता सफलीकृता च सा पन्नगगवीजुषमाणानां दुर्व्याख्यानचण्डतपसन्त्रासितानां सच्छायावृक्ष- राजायमानाऽभवत्। श्रीगुरुपादानां श्रीमद्दामोदरशास्त्रिणां गुरुकल्पानां श्रीशिवकुमार- शास्त्रि-श्रीतात्याशास्त्रिप्रभृतीनां काले सातिशयं तारुण्यमासादितेयम् इदानीं सर्वा- धारस्य महाकालस्य कुटिलकटाक्षवीक्षणेन वार्धक्यमनुभूयमाना दरीदृश्यते। अतः साम्प्रतं सुरभारतीप्रणयिनां पन्नगगवीलब्धाधिकाराणां वृद्धायास्तस्याः सेवैव परमा- वश्यकं कार्यं कर्तव्यतयाऽऽपतति। किञ्च स्वर्गतैर्गुरुपूज्यैर्निणीतस्य समुद्भावितस्य च विषयस्य तत्त्वतो विनिश्चय एव यदा न भवति, ग्रन्थतत्त्वार्थमनवबुध्य तत्कृतानां मनःकल्पितोऽनर्थश्च क्रियते, तादृशे समये कथन्नाम नूतनकृतेः कृतकारिता स्यात्। अतोऽस्माभिरद्यावधि तत्त्वबुभुत्सूनन्तेवासिनः गुरुक्तितत्पर्यप्रकाशनमुखेन बोधयद्भिः शास्त्रचिन्तन एव निखिलोऽपि नीतः समयः। अत्रान्तरे कैलासवासिमहामहोपाध्याय- श्रीतात्याशास्त्रिपादानां पौत्रैः पण्डितश्रीवासुदेवशास्त्रिभिः 'भूतिं' परिष्कर्तु- महमनुरुद्धः। शास्त्रपरिनिष्ठितानामपि साम्प्रदायिक-भूतिग्रन्थस्य तात्पर्यविधारणं दुर्घटं भवति, तेन तत्तात्पर्यस्य अन्यथाभावोऽपि कदाचित् सुशकः, भूतिग्रन्थोऽपि कुत्र- कुत्रचित् आवश्यकसङ्ग्राह्यविषयैरसङ्कलितः, कुत्रचित् काठिन्यातिशयमादधानः, परिष्कारांशे विशेषतः क्लिष्टतमः गुरुक्तिमात्रैकगम्यश्च दरीदृश्यते। अतस्तत्परिष्कृतिः परमावश्यकीति विभाव्य मयाऽपि तेषामनुरोधमादृत्यात्र प्रयत्नितम्, 'तत्त्वप्रकाशिका'- रूपेण आत्मनाऽधिगतः प्रकाशश्च प्रकाशिता विदुषां पुरस्तात्। यद्यपि अस्मदीय वचः अवधूतमेव स्यात्; तथापि 'रथ्योदकं गङ्गाप्रपातपात इवे'ति वृद्धमिश्रवाचस्पति- स्मारितमुदाहरणमनुसृत्यास्य ग्रन्थने मया धार्ष्ट्यं कृतम्। अत्र तत्त्वप्रकाशिकायां भूति