परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 85, कुल 373 में से
संदर्भ में पढ़ें११ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ५५ न चोक्तज्ञापकाद्वर्णग्रहणेऽस्या अप्रवृत्तिरिति वाच्यम्, 'आने मुक्' इति सूत्र-भाष्येऽकारस्याङ्गावयवस्य मुगित्यर्थे 'पचमान' इत्यत्र 'तास्य- नुदात्तेत्' इति स्वरो न स्यादित्याशङ्क्य, अदुपदेशभक्तस्तद्ग्रहणेन ग्राहिष्यत इत्युक्तेरसङ्गत्यापत्तेः । किञ्च ङमन्तपदावयवस्य ह्रस्वात्परस्य ङमो ङमुडित्यर्थे 'कुर्वन्नास्त' इत्यादौ ङमो ङमुडागमे णत्वप्राप्तिमाशङ्क्य, 'यदागमा' इति न्यायेनाऽऽद्य- न्तस्यापि पदान्तग्रहणेन ग्रहणात् 'पदान्तस्य' इति निषेध इत्यनया परिभाषया आगमानामागमिधर्मवैशिष्ट्यमपि बोध्यत इत्याशयक-'ङमुट्'सूत्रस्थभाष्या- सङ्गतेः । ननु ज्ञापकसाजात्याद्वर्णग्रहणे एवैषाऽनित्येति प्राचीनमतं कटा