भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 87, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 87

११ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ५७ सङ्गच्छते। अत एव 'रदाभ्याम्'ति सूत्रे भाष्यम्—'गुणो भवति, वृद्धिर्भवति, रेफशिरा गुणवृद्धिसंज्ञकोऽभिनिर्वर्तत' इति। अत एव 'नेटि', 'णेरनिटि' इत्यादि चरितार्थम्। 'अनागमकानां सागमका आदेशा' इत्यस्य त्वयमर्थः—आर्धधातुकस्ये-

भाष्यविरोधः। मूर्धस्थानिकवर्णघटितत्वेन सादृश्याभावेऽपि रेफावयवकत्व- धर्मेण सादृश्यमादाय 'ऋकारस्य गुणवृद्धी अरारावेवे'त्यस्योपपत्तेर्न लक्ष्यदोष- लेशोऽपीति तत्त्वम्। 'रदाभ्यामि'त्यत्र भाष्ये 'रेफशिरा गुणवृद्धिसंज्ञक' इत्यत्र नाभैदान्वयः, किन्तु गुणवृद्धिसंज्ञकोऽभिनिर्वर्तते; स च 'रेफशिरा, उरण्रपर' इति शास्त्राद्भवतीत्यर्थः। लोकसिद्धाया अस्याः परिभाषायाः ज्ञापकसिद्धत्वम

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक) · पृष्ठ 87, कुल 373 में से · BharatKosha