भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 89, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 89

११ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ५९ स्थानिवत्सूत्रे च नेदृशादेशग्रहणं साक्षादष्टाध्यायीबोधितस्थान्यादेशभावे चारितार्थ्यात् । किञ्चैवं सति स्थानिबुद्ध्यैव कार्यप्रवृत्त्या 'निर्दिश्यमान- स्ये'ति परिभाषाया अप्राप्त्याऽडागमसहितस्य पिबाद्यादेशापत्त्या 'लावस्था- यामडि'ति भाष्योक्तसिद्धान्तासङ्गतिः । स्थानिवद्भावविषये निर्दिश्यमान- स्येतिपरिभाषायाः प्रवृत्तौ 'तिसृणामि'त्यत्र परत्वात्तिस्रादेशे स्थानिवद्भावेन त्र्यादेशमाशङ्क्य, 'सकृद्गति'न्यायेन समाधानपरभाष्यासङ्गतिः । 'एरुरि'त्यादौ स्थानषष्ठीनिर्देशात्तदन्तपरतया पठितवाक्यस्यैव समु- दायादेशपरत्वेन आदेशग्रहणसामर्थ्यात्तस्य स्थानिवत्सूत्रे ग्रहणेन न दोषः । आनुमानिकस्थान्यादेशभावकल्पनेऽपि श्रौतस्थान्यादेशभावस्य न त्याग इति 'अचः परस्मिन्' इत्यादेर्नासङ्गतिः । ननु 'एरुरि'त्यादाविव कल्पितस्थान्यादेशभावेऽपि स्थानिवत्सूत्रप्रवृत्ते- दुर्वारतया 'नेटी'त्यादेर्ज्ञापकत्वासम्भव इत्यत आह-स्थानिवत्सूत्रे चेति । साक्षा- दष्टाध्यायीति । पाणिन्युच्चरितपदप्रयोज्यस्थान्यादेशभाव इत्यर्थः । 'एरुरि'त्यादौ तु लक्षणया एरिरित्यादिपदानामेव तदन्तपरत्वमिति वक्ष्यते । ननु 'घटायोन्मीलितं चक्षुर्नहि पटं न पश्यती'ति न्यायेन तत्र चारितार्थ्येऽपि कल्पितस्याग्रहणे किं मान- मत आह-किञ्चेति । एतद्भाष्यबलादेव तस्य न स्थानिवत्सूत्रे ग्रहणमिति भावः । नन्वेवमानुमानिकादेशकल्पने पटयती'त्यत्र अजादेशाभावेन 'अचः परस्मिन्नि'- त्यस्याप्राप्त्यापत्तिरत आह-न त्याग इति । सूत्रारम्भसामर्थ्येन अजादेशविधायक- सूत्राणामर्थद्वयेऽपि पाणिनितात्पर्य्यधारणादिति भावः । मूले पिबाद्यादेशापत्त्येति । वस्तुतः एतावत्पर्यन्तानुधावनं व्यर्थमेव, 'उदस्थादि'- त्यादावेव पूर्वसवर्णपत्तेर्जागरूकत्वात् । मूले सिद्धान्तासङ्गतिरिति । तत्र हि 'आसन्' इत्यत्र 'श्नसोरल्लोपः' इत्यल्लोपो- त्तरमनजादित्वादाण् न प्राप्नोति, एवं 'आयन्' इत्यत्रापि अन्तरङ्गत्वादिरणो यणि अनजादित्वात् स न प्राप्नोति, अतः सूत्रकृता सूत्रमारब्धम्-'असिद्धवदत्राभात्' इति । भाष्यकृता तु 'लुङ्- लङ्लृङ्' इति द्विलकारको निर्देश इति लावस्थायामेवाटमङ्गीकृत्य 'असिद्धवदि'ति सूत्रं प्रत्या- ख्यातमिति सिद्धान्तानुपपत्तिरिति भावः । वस्तुतस्तु-प्रत्याख्यानपक्ष एकदेशिन एव, 'सुमनिष्ठः' इत्यादौ टेरिति लोपोत्तरं 'नस्तद्धित' इति लोपप्रसङ्गात् । एवञ्च परत्वात् पिबादेशोत्तरमटि 'अपिबत्' इत्यत्र न दोषः । न स्थानिवत्सूत्रे ग्रहणमिति । यथा च तस्य स्थानिवत्सूत्रे ग्रहणेऽपि न दोषस्तथा- 'निर्दिश्यमान'परिभाषानिरूपणावसरे स्फुटीभविष्यति ॥ ११ ॥