परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 91, कुल 373 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का पंक्ति-वार (line-by-line) देवनागरी लिप्यन्तरण दिया गया है:
१२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ६१ वा स्थानेन स्थाननिरूपितसम्बन्धेन युज्यते, न तु प्रतीयमानमित्यर्थ- स्तेनेदं सिद्धम् । न चास्य 'छ्वावि'त्यादौ दीर्घाणामादेशानापत्तिः, तेषां निर्दिश्यमान- त्वाभावादिति वाच्यम् ; जातिपक्षे दोषाभावात् । किञ्च 'न भूसुधियोरि'ति घटितपरम्परया स्थानपदार्थेन युज्यन्त इति सूत्रार्थात् 'त्यदानीनाम' इत्यस्यापि स्थान- पदार्थे स्वावयवमात्रघटितपरम्परयाऽन्वयेन उपसर्गतकारस्य सत्त्वे तद्बाधान्न दोषः । निर्दिश्यमानपदार्थे प्राथमिकत्वनिवेशं सूचयति—न तु प्रतीयमानमिति । न तु कथञ्चि- दुपस्थितिविषय इत्यर्थः । तेनेदं सिद्धमिति । सूत्रस्येदृशार्थकथनेनार्थतो निर्दिश्यमान- स्यादेशा भवन्तीति