परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 93, कुल 373 में से
संदर्भ में पढ़ें१२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ६३ मित्यपास्तम् ; ‘हयवरट्’सूत्रस्थेन ‘अयोगवाहानामुपदेशोऽलोऽन्त्यविधिः प्रयोजनम् । वृक्षस्तत्र, नैतदस्ति प्रयोजनम् ; ‘निर्दिश्यमानस्येत्येव सिद्धमि’ति भाष्येण विरोधात् । अनया परिभाषया ‘येन विधिर्’ति सूत्रबोधिततदन्तस्य स्थानित्वा- भावबोधनं, यदागमा इति लब्धस्य च, तेन ‘सुपद्, उदस्थादि’त्यादिसिद्धिः । एषामपि ‘षष्ठीप्रकृतो’त्यादिनिरुक्तनिर्दिश्यमानत्वादित्यर्थः । वस्तुतस्तु—रीङादेरिव इयङुवङोङित्त्वमपि स्पष्टार्थमेव, ख्वोरित्यस्यापि निर्दिश्य- मानत्वात् । ‘निर्दिश्यमानावयवेतरस्यादेशा न भवन्ती’त्यर्थस्यैव परिभाषया बोधनात् ‘धातोश्च ख्वोरि’ति निर्दिश्यमानावयवेतरत्वेनादेशनिषेधप्रवृत्तेः सुलभतया न तद्- व्यावृतये ङित्त्वम् । अत एव मूले निर्दिश्यमानावयवरूपमेवेत्येवकार उपन्यस्तः ; निर्दिश्य- मानावयवरूपमेव स्थानेन युज्यते, न तु निर्दिश्यमानावयवेतरदिति तदर्थः । भाष्येण विरोधादिति । केचित्तु—विसर्गस्याल्त्वेऽपि वर्णत्वाभावान्न भाष्य- विरोध इति वदन्ति । ननु पूर्वोक्तनिर्दिश्यमानत्वलक्षणे तत्तच्छास्त्राभिन्नत्वनिवेशे गौरवमत आह— अनयेति । ‘यदागम’परिभाषासहकारेण उपस्थितिविषयत्वाभावे सति ‘येन विधिर्’ति शास्त्रसहकारेणोपस्थितिविषयत्वं निर्दिश्यमानत्वमिति भावः । निरुक्तनिर्दिश्यमानत्वादित्यर्थ इति । यद्यपि ख्वोरपि निर्दिश्यमानत्वम् ; तथापि वृक्षप्रचलनन्यायेन धातुपदीयनिर्दिश्यमानस्यैवादेशः स्यादिति ङित्त्वं सावकाशम् । ननु धातुपदवद् वृक्षप्रचलनन्यायेन अङ्गपदीयनिर्दिश्यमानस्यैवादेशवारणाय ङित्त्वं सार्थक- मिति कुतो नोक्तम् ? किञ्च रीङावधायकेऽङ्गस्यापि निर्दिष्टत्वादन्त्यादेशाय ङित्त्वस्य चरितार्थतया ‘रीङ्रिङोर्ङित्त्वं स्पष्टार्थमि’ति मूलोक्तिरसङ्गतावेति चेत्—सत्यम् ; व्यावत्र्यभावेन परिभाषा- प्रवृत्त्यभावात् । निर्दिश्यमानस्यैवादेशो भवति, न तु तेन प्रतीयमानस्य द्वितीयोपस्थितिविषयस्येति तदर्थः । यथा धातुपदांशे प्रवृत्तौ धात्वन्तस्य व्यावृत्तिस्तथाऽङ्गांशे प्रवृत्तौ अङ्गान्तस्येत्यादे- र्व्यावृत्त्यासम्भवेन तदप्राप्तेः । एतन्मूलकमेव निर्दिश्यमानत्वलक्षणे षष्ठीप्रकृतिपदेन अङ्गरूपपदरूप- प्रकृतिभिन्नैव प्रकृतिर्गृह्यत इत्यभियुक्ता वदन्तीति दिक् । मतान्तरमाह—वस्तुतस्त्विति । एतन्मते ‘निर्दिश्यमानस्येति’परिभाषा यत्र सञ्चारणीया तत्सूत्रघटकनिर्दिश्यमानावयवस्यैवादेशो भवति, तत्सूत्रघटकनिर्दिश्यमानावयवेतरस्य तत्सूत्र- घटकस्य निर्दिश्यमानस्य आदेशा न भवन्ति, सूत्रघटकयावन्निर्दिश्यमानावयवस्यादेशा भवन्तीति यावत् । तथा च धातोर्पि निषेधेनेदं ङित्त्वं स्पष्टार्थमेवेति भावः । इति तदर्थं इति । निर्दिश्यमानावयवेतरस्य साक्षादेव स्थानेन सम्बन्धो निषिध्यते, परम्परया तु भवत्येवेति न ‘तदोः’ति सूत्रे त्यदादीनामिति निर्दिश्यमानावयवेतरस्य परम्परया- ऽन्वये बाधकाभाव इति बोध्यम् ।