फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)
Phaladeepika of Mantreshwara Daivajna with Commentary
मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा
पृष्ठ 309, कुल 684 में से
संदर्भ में पढ़ें३०८ फलदीपिका लग्नेशे सुखगेऽथवा सुखपतौ लग्ने तयोरीक्षणे योगे वा शशिनस्तथा यदि करोत्यन्त्यां स्वमातुः क्रियाम् । अन्योन्यं यदि शत्रुनीचभवने षष्ठाष्टमे वा तयो- र्मातुर्नोपकरोति नाशसमये बन्धस्तयोर्वा न चेत् ॥११॥ मातृभावोक्तवद्वाच्यं पितृभ्रातृसुतादिषु । भावकारकभावेशलग्नलग्नेश्वरैर्वदेत् ॥१२॥ सुस्थौ सुखेशभृगुजौ तनुबन्धुयुक्ता- वान्दोलिकां जनपतेश्वरतां विधत्तः । स्वर्णाद्यनर्घ्यमणिभूषणपट्टशय्या- कामोपभोगकरणानि च गोगजाश्वान् ॥१३॥ दुःस्थे सुखेशे कुजसूर्ययुक्ते सुखेऽपि वा जन्मगृहं प्रदग्धम् । जीर्णं तमोमन्दयुतेऽरियुक्ते परैर्हृतं गोक्षितिवाहनाद्यम् ॥१४॥ सौम्यर्क्षांशे सौम्ययुक्ते पञ्चमे वा तदीश्वरे । वैशेषिकांशे सद्भावे धीमान्निष्कपटी भवेत् ॥१५॥ स्थितिः पापानां वा, द्विषति बलयुक्तारिपतिना युतो वा दृष्टो वा, यदि रिपुगृहे वा तनुपतिः । अरीशः केन्द्रे वाऽप्यशुभखगसंवीक्षितयुतो रिपूणां पीडां द्राग्भृशमपरिहार्यां वितनुते ॥१६॥ षष्ठेश्वरादतिबलिन्युदयाधिनाथे सौम्यग्रहांशसहिते शुभदृष्टियुक्ते ।