प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 119, कुल 274 में से
संदर्भ में पढ़ेंतृतीयोग्ङ्कः १०१ (आकाशे) अरेरे श्रावकाः, शृणुध्वम्— (ॐणमो अरिहन्ताणम्। णवदुवालग्घलमज्झे अप्पा दीवेव्वलदि। एसो जिणवलभासिदो पलमत्थो जं मोक्ससुखदो अलेले सावका, सुणुधं)— मलमयपुद्गलपिण्डे सकलजलैरपि कीदृशी शुद्धिः। आत्मा विमलस्वभावः ऋषिपरिचरणैर्ज्ञातव्यः ॥ ५ ॥ (मलमअपोग्गलपिण्डे सव्वलजलेहि वि केलिसी सुद्धी। अप्पा विमलसहाओ रुसिपलिचलणेहिं जाणव्वो ॥) किं भणथ कीदृशमृषिपरिचरणमिति। तच्छृणुध्वम्— (किं भणत्थ केलिसं लिसिपारिचलणं ति। ता सुणुध)— दूरे चरणप्रणामः कृतसत्कारं च भोजनं मिष्टम्। ईर्ष्यामलं न कार्यं ऋषीणां दारान् रममाणानाम् ॥ ६ ॥ (दूले चलणपणामो, किदसक्कारं च भोअणं मिट्ठम्। इस्सामलं ण कज्जं, लिसिणं दालारं लमन्ताणम् ॥) मलमयेति० मलमये श्लेष्ममूत्रादिमलैः पूर्णे पुद्गलानां परमाणूनां पुञ्जरूपे पिण्डे देहे 'पुद्गलपिण्डे' देहे इति वा 'पुद्गलं वपुरात्मनः' इति धरणी। सकलजलैः समस्तै- रपि वारिभिः कीदृशी किमप्राशुद्धिः, सर्वस्मिन्नपि जले उपयुक्ते स्वाभाविकरूपेण मलवतोऽस्य देहस्य शुद्धिर्न संभवतीत्यर्थः। (न चानेन कायिकमलेनात्मा लिप्यते) आत्माविमलस्वभावः सहजनिर्मलः, स चात्मा ऋषिपरिचरणैः साधुसेवाभिर्ज्ञातव्यः। आत्मस्वरूपं प्रागुक्तम् ॥ ५॥ ऋषिपरिचरणैरात्माज्ञातव्य इत्युक्तं तत्र का ऋषिपरिचरणप्रक्रियेति वक्तुमाह— कीदृशमिति। दूरे इति० दूरे दूरदेशतः चरणप्रणामः पादवन्दनम्, शरीरस्पर्शस्तु न कार्य इति भावः। कृतसत्कारं योग्यादरपूर्वकम् मिष्टं मधुरं भोजनम्, नैतावदेव, किन्तु रही है। यही जिनवर भाषित परमार्थ सिद्धान्त मोक्षसुखदाता है। अरे ओ श्रावको, सुनो— मलमय पुद्गलपिण्डरूप देहकी कैसी शुद्धि? यह आत्मा विमल स्वभाव का है यह बात ऋषि परिचर्यासे जानी जाती है ॥ ५ ॥ क्या कहा? ऋषि परिचर्या कैसे की जाती है? तो सुन लो— दूरसे चरणोंमें प्रणाम करो, सत्कारपूर्वक मधुर भोजन दो, यदि ऋषि तुम्हारी स्त्रियों के साथ विहार करें तो मनमें ईर्ष्या मत करो ॥ ६ ॥