भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 135, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 135

तृतीयोऽङ्कः ११७ पार्वत्याः प्रतिरूपया दयितया सानन्दमालिङ्गितो मुक्तः क्रीडति चन्द्रचूडवपुरित्यूचे मृडानीपतिः ॥ १६ ॥ भिक्षुः—महाभाग, अश्रद्धेयमेतदर्वीतरागस्य मुक्तिरिति । क्षपणकः—अरे कापालिक, यदि न कुप्यसि तर्हि भणामि । शरीरी सरागी मुक्त इति विरुद्धम् । ( अले कावालित्र, जइ ण कुप्पसि तदो भणामि । सलीलो सलागी मुक्केति विरुद्धम् ) कापालिकः—( स्वगतम् ) अये, अश्रद्धादूषितमनयोरन्तःकरणम् । भव- त्वेवं तावत् । ( प्रकाशम् ) श्रद्धे, इतस्तावत् । ( ततः प्रविशति कापालिकीरूपधारिणी श्रद्धा ) तन्मवेवं कीदृशो मोक्षस्तवभिमत इति चेत्तत्राह—पार्वत्याः हरभार्याया गौर्याः प्रति- रूपया मूर्त्या पार्वतीभावं प्राप्तया दयितया स्वभार्यया सानन्दम् मद्यादिसेवनोत्से- जनया सहर्षम् आलिङ्गितः आश्लिष्टतनुः मुक्तः पाशापगमेन बन्धरहितः चन्द्रचूड- वपुः शिवाभिन्नः साधकः क्रीडति विहरति इति मृडानीपतिः शिव ऊचे उक्तवान् । कौलागमानुसारं साधकः शिवरूपस्तद्भार्या पार्वतीरूपा, तयाऽऽलिङ्गितस्य विधुवन- विहारजन्माऽऽनन्दधुरेव मोक्ष इति शिवोक्तिरिति तात्पर्यम् । शार्दूलविक्रीडितमेव वृत्तम् ॥ १६ ॥ अर्वीतरागस्य रागयुक्तस्य । रागापगमे एव मुक्तिर्जायते, यदि जायातारागः स्थित एव तदा न मुक्तिसम्भव इति । शरीरी सरागी-देहसम्बन्धवान्, रागयुक्तश्च । अश्रद्धाऽऽक्षिप्तम्-अविश्वासोपहतम् । एतेऽविश्वासोपहता अत एव चेमे मोक्ष- तत्त्वबोद्धुमशक्ता इति भावः । भवत्वेवं तावत्-यथाऽमीषां श्रद्धा स्यात्तथा यत्नः क्रियतामित्यर्थः । चाहेगा ? अतः पार्वतीके प्रतिरूपमे अवस्थित अपनी प्रियतमासे आलिङ्गित होकर शिव- स्वरूप जीव मुक्त हो क्रीडा करता है यह शिवने कहा है ॥ १६ ॥ भिक्षु—इस बात पर श्रद्धा नही हो रही है कि विना विरागके ही मुक्ति होती है । क्षपणक—अरे कपालिक, यदि क्रोध न करो तो पूछता हू कि शरीरी और रागवान् मुक्त होता है यह विरुद्ध है । कापालिक—( स्वगत ) अरे, इन दोनोंका हृदय अश्रद्धासे भरा है । अच्छा रहे । प्रकाश ) श्रद्धे, इधर तो आओ । ( कापालिकीरूपमे श्रद्धाका प्रवेश )