प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 135, कुल 274 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः ११७ पार्वत्याः प्रतिरूपया दयितया सानन्दमालिङ्गितो मुक्तः क्रीडति चन्द्रचूडवपुरित्यूचे मृडानीपतिः ॥ १६ ॥ भिक्षुः—महाभाग, अश्रद्धेयमेतदर्वीतरागस्य मुक्तिरिति । क्षपणकः—अरे कापालिक, यदि न कुप्यसि तर्हि भणामि । शरीरी सरागी मुक्त इति विरुद्धम् । ( अले कावालित्र, जइ ण कुप्पसि तदो भणामि । सलीलो सलागी मुक्केति विरुद्धम् ) कापालिकः—( स्वगतम् ) अये, अश्रद्धादूषितमनयोरन्तःकरणम् । भव- त्वेवं तावत् । ( प्रकाशम् ) श्रद्धे, इतस्तावत् । ( ततः प्रविशति कापालिकीरूपधारिणी श्रद्धा ) तन्मवेवं कीदृशो मोक्षस्तवभिमत इति चेत्तत्राह—पार्वत्याः हरभार्याया गौर्याः प्रति- रूपया मूर्त्या पार्वतीभावं प्राप्तया दयितया स्वभार्यया सानन्दम् मद्यादिसेवनोत्से- जनया सहर्षम् आलिङ्गितः आश्लिष्टतनुः मुक्तः पाशापगमेन बन्धरहितः चन्द्रचूड- वपुः शिवाभिन्नः साधकः क्रीडति विहरति इति मृडानीपतिः शिव ऊचे उक्तवान् । कौलागमानुसारं साधकः शिवरूपस्तद्भार्या पार्वतीरूपा, तयाऽऽलिङ्गितस्य विधुवन- विहारजन्माऽऽनन्दधुरेव मोक्ष इति शिवोक्तिरिति तात्पर्यम् । शार्दूलविक्रीडितमेव वृत्तम् ॥ १६ ॥ अर्वीतरागस्य रागयुक्तस्य । रागापगमे एव मुक्तिर्जायते, यदि जायातारागः स्थित एव तदा न मुक्तिसम्भव इति । शरीरी सरागी-देहसम्बन्धवान्, रागयुक्तश्च । अश्रद्धाऽऽक्षिप्तम्-अविश्वासोपहतम् । एतेऽविश्वासोपहता अत एव चेमे मोक्ष- तत्त्वबोद्धुमशक्ता इति भावः । भवत्वेवं तावत्-यथाऽमीषां श्रद्धा स्यात्तथा यत्नः क्रियतामित्यर्थः । चाहेगा ? अतः पार्वतीके प्रतिरूपमे अवस्थित अपनी प्रियतमासे आलिङ्गित होकर शिव- स्वरूप जीव मुक्त हो क्रीडा करता है यह शिवने कहा है ॥ १६ ॥ भिक्षु—इस बात पर श्रद्धा नही हो रही है कि विना विरागके ही मुक्ति होती है । क्षपणक—अरे कपालिक, यदि क्रोध न करो तो पूछता हू कि शरीरी और रागवान् मुक्त होता है यह विरुद्ध है । कापालिक—( स्वगत ) अरे, इन दोनोंका हृदय अश्रद्धासे भरा है । अच्छा रहे । प्रकाश ) श्रद्धे, इधर तो आओ । ( कापालिकीरूपमे श्रद्धाका प्रवेश )