प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 187, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः १६६ विष्णुभक्तिः—वत्से, एतस्मिन् वीरवरक्षये महति संप्राये जाते न जाने बलवता महामोहेनाभियुक्तस्य वत्सस्यविवेकस्य कीदृशो वृत्तान्त इति दुःस्थितमिव मे हृदयम् । शान्तिः—किमत्र विचिन्त्यते । ननु भगवती देवानुग्रहा तन्नियत- मेव राज्ञो विवेकस्य विजय इति जानामि । विष्णुभक्तिः—वत्से, यद्यप्यभ्युदयः प्रायः प्रमाणादवधार्यते । कामं तथापि सुहृदामनिष्टाशङ्कि मानसम् ॥ ४ ॥ विशेषतश्च श्रद्धायाश्चिरगमनान्मनो मनसि संदेहमारोपयति । श्रद्धा:—( उपसृत्य ) भगवति, प्रणमामि । वीरवरक्षये-योधप्रधानावनाशकारणे । सम्प्राये-युद्धे । अभियुक्तस्य-युद्धोद्य- तस्य । दुःस्थितम्-व्यग्रम् । कृतानुग्रहा-प्रसन्ना । नियतम्-निश्चितम् । यद्यपीति० यद्यपि यद्यपि प्रमाणात् प्रमाणसाधनसमूहात् विजयः प्रायः सम्भवतः अवधार्यते अनुमीयते, प्रायः, तथापि विजयस्य सम्भावनाविषयत्वेऽपि सुहृदाम् युध्यमानजनमित्राणाम् मानसम् हृदयम् अनिष्टाशङ्कि अहितसम्भावनापरम् 'स्नेहः पापमाशङ्कते' इति न्यायेन सत्यामपि जयसम्भावनायां हृदयं पदं नार्धायते इत्यर्थः । प्रमाणसिद्धमन्यद्भवतु, हृदयं तु पापमेव ध्यायति, तस्य तद्विषये नातिशय- स्नेहवत्त्वात् । तदहं तद्विजये सन्दिग्धानहृदया जाये इति तात्पर्यार्थम् ॥ ४ ॥ विशेषतः-प्रधानभावेन । यदि विवेकस्य विजयः प्राप्स्यत नूनं श्रद्धाऽऽगत्य मह्यं तं समाचारमसूचयिष्यन्न चागता सा, तदहं सन्देहं वहामीति प्रसङ्गार्थः । विष्णुभक्ति—वत्से, वीरक्षयकर इस युद्धमे बलवान् महामोही अभियुक्त वत्स विवेकका क्या समाचार होगा ? इसीसे हमारा हृदय विकल है । शान्ति—इसमे चिन्ताकी क्या बात है ? जब आपकी कृपा है तो मै जानती हूँ कि निश्चय राजा विवेककी जीत होगी । विष्णुभक्ति—वत्से, यद्यपि प्रमाणसे अभ्युदय प्रमाणित होता है तथापि हितैषियोंका हृदय अनिष्टकी आशङ्का ही किया करता है ॥ ४ ॥ खास करके चिन्ताका कारण यह हो रहा है कि बहुत दिनोंसे श्रद्धा नहीं आई है । श्रद्धा—( समीप जाकर ) भगवति, प्रणाम करती हू ।