प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 2, कुल 274 में से
संदर्भ में पढ़ेंअवतारणा अथेदमुपक्रम्यते प्रकाशयितुं 'प्रकाश' समन्वितं प्रबोधचन्द्रोदयं नाम नाटक- रत्नम् , अस्य रचयितुः परिचयादिकमिदमीयं साहित्यिकं गौरवमन्यच्च ज्ञातव्यम् राष्ट्रभाषया लिखितमस्तीति तत एवावसेयम् । अस्य ग्रन्थस्य टीकाद्वयं मया दृष्टम्—१ एका नाण्डिल्लगोपमन्त्रिशेखरकृता २ अन्या रामदासदीक्षितकृता । आभ्यामतिरिक्तोऽस्याङ्ग्लभाषानुवादोऽपि दृष्टिपथं समारूढः । तत्राद्याऽर्थबोधननिरपेक्षा सत्यपि शास्त्रीयतत्त्वप्रकाशनोन्मुखीति न त- महानुपकारं पठताम्, अपरा तु खण्डान्वयादेशा प्रवृत्ता छात्राणां कृते नितान्तव्यर्था आङ्ग्लभाषानुवादश्चानुवाद एव, तदेवं सतीष्वपि तासु सहायिकासु व्याख्यासु सर्वसाधा- रणपाठकसौविध्यं मनसि निधाय मयाऽयं प्रकाशोत्र योजितः, अथानया मम टीकया यदि सुधियां पाठकानामन्तेवासिनां च मनांसि विनोदितानि स्युस्तदाऽहमात्मानं परिश्रमे सफलं मन्येय । अयं ग्रन्थो नाटकान्तरविलक्षणो यतोऽत्र पात्राणि प्रतीकरूपेण कल्पितानि। लौकिकीकथा यथा झटिति हृदयमालोडयति शास्त्रीया कथा तथा त्वरया केषामेव न भाग्यवैभवासादिततीव्रप्रतिभानामन्तः प्रकाशत इति नाटकस्यास्य व्याख्यायां यथासंभवं मया ते ते प्राकरणिका पदार्थास्तत्र तत्र यथामति यथाऽऽवश्यकतं समावेशिताः । ईदृशाना ग्रन्थाना समादरपूर्वकाध्ययने प्रायः प्रौढा एव जनाः प्रवर्त्तन्ते वय परिमाणमपि स्वाभाविकीं शिक्षामनिच्छद्भ्योऽपि बलाद्वितरतीति विभाव्याति- विस्तृतितो विरम्य माध्यमिक पन्था मयाऽत्राश्रितः । अथापि न परित्यक्ता आवश्यका प्रतिपाद्यपदार्थाः, नोपेक्षितं समयप्राप्तं विवेचनम् । सरलतासम्पादनाया- मया विशिष्य प्रयतितम् । परिशिष्टे च ज्ञातव्याः सर्वेऽपि विषयाः समावेशिताः । ये स्वयमेतादृशीं व्याख्यां प्रतिपदं प्रकाशयन्ति ते किमर्थं मदीये व्याख्याने दृष्टिं दास्यन्ति ? ये च नितान्ताबोधाः सन्तोऽपि किमपि परकीयं यशो मलिनयेयमिति कृतसङ्कल्पा इव वृथैव पराञ्छिन्दन्ति तेऽपि नास्या व्याख्याया लाभमादास्यन्ति। अथापि मध्यस्थाः सज्जनाः सकृदपि दृक्पातेन यदि ममेमं प्रयासं सफलाभिष्यन्ति तदाऽहमात्मान कृतकृत्यं मंस्ये । शमिति राँची } विदुषां वशंवदः जन्माष्टमी २०१२ } श्री रामचन्द्र मिश्रः